सामग्री पर जाएँ

पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नयागकाण्डः 20 वर्तमाने वर्तमानम् । अतः प्रत्यक्षस्य त्रैकाल्यात् तद्विषयतापि त्रिकालेति अभूत, अस्ति, भविष्यति ’ इति त्रिधा मेदोपपात्तिः । प्रमाणान्नरापक्ष त्वाच्चम्यर्थनिष्टवे वेदान्तानामप्रमाण्यप्रसङ्गात् कायेनष्ठत्वमेष्टव्यमिति चत् ; उच्यत - तदसारम् । एवं Iह सति नित्यानुमेये परमाणवप्रत्यक्ष प्रमाणान्तरविषयता नास्तीति थूलदशनन परमाणुर्नानुमीयेत । तथा मन्त्र लिङ्गानुमेया विनियोजिका श्रुतिरप्यत्रोदाहार्या । किं चैवं सति न केवलं वेदानानामेव सपेक्षत्वादप्रामाण्यम् , अपितु (लिङ्गस्यापि धूमादेः स्यात् ; अतोऽनुमानमपि प्रमाणं न स्यात् ; तदेतदाह-अन्येति । अत्राशङ्कयति- तत्सिद्धेरिंति ! तत एव धूमादेर्लिङ्गात् तत्सिद्धेः प्रमाणान्तरस्य सिढेः प्रसिद्धः ज्ञानात् लिङ्गस्य नैरपेक्ष्यं यदीत्यर्थ; संवादकप्रमाणान्तरानपेक्षां हि नैरपेक्ष्यं व्याहरन्ति । इह तु प्रमाणान्तरं न सेवादायापेक्ष्यते, अपितु प्रमीयते । तत्प्रमितों च लिङ्ग निरपेक्षमेव । तद्द्वारेण चाप्तवक्यवदर्थसिद्धेिः । अतः प्रामाण्यं लिङ्गस्येत्यभिप्रायः । चेच्छब्दः पादपूरणार्थः । यद्वा तन एव चेत्तत्सिद्धिः, तथा सति न नैरपेक्ष्यं । यदी ियोज्यम् । अत्रोत्तरमाह — नेति । इत्थं यन्नैरपेक्ष्यं तदस्यर्थनिष्ठेऽपि वेदे राजदण्डेलगुडैर्वापि न निवार्यते । वेदान्तेष्वप्येतत् समानम् । तेषामपि हि प्रमाणान्तरस्य तत सिद्धेः तत्समितिद्वारेण चार्थसिद्धेः प्रामाण्यमप्रतिहतमित्यर्थः । तत्र परो वेदान्तलिङ्गयोर्वैषम्यमाह –तत्संभव इति । लैङ्गिकं नदीपूर- धूमादिलिङ्गगम्भ्ये दृष्टयादावर्थं तप्तभवः प्रमाणान्तरस्य संभवः । तेन तत्र तस्प्रमितिद्वारेणार्थसिद्धेर्युक्तं प्रामाण्यम् ; न त्वत्र वेदान्तैकवेद्यवझणीति यत्, तदसमञ्जसम् ; कुतः ? बझण्यपि साक्षात्करणाभ्युपगमात् साक्षत्कारि ज्ञानमस्ति । अतस्तत्प्रमितिद्वारेणार्थसिद्धौ वेदान्तानमपि प्रामाण्यमप्रतिहत मिति भावः । एवमेिति ; प्रमाणान्तरप्रमितिसिडेस्तत्प्रमितिद्वारेण वार्थद्वारेण वा तप्रमेयसि ब्रेरित्यर्थः । अर्थे तस्येति तस्य लिङ्गस्यार्थे विषये प्रमा णान्तरस्य प्रत्यक्षस्य संभवादित्यर्थः । बुद्धादिवक्यानामतीन्द्रियार्थोपदेशिना मिति व्यवहितेनान्वयः । ‘एवमयं पुरुषो वेद ’ इति पौरुषेयवाक्यत्वेनौ- चित्यप्राप्तमनुमितम् , न च बुद्धवाक्येषु ज्ञाननिष्ठास्ति, अतीन्द्रियेऽथे ज्ञानस्यसंभवात् । ज्ञाननिष्ठानामिति ज्ञानस्यासंभवादिति चानयोर्न अतो ";