200 व्याख्या प्रामाण्यप्रसङ्गात प्रामाण्याय तेषां कार्यनिष्ठत्वमेष्टव्यमिति भावः । तद्वेष- याति--अत्रेति । इतिशब्दो बुद्धिशब्दौ निर्दिशति ; तेनायमर्थः अस्ति 'इति बुद्धेः शब्दस्य च मानावगम्यत्वं न च विषयो मतम् ; न मानावगम्यता सत्तेयर्थः । “ अस्ति ’ इत्यविवक्षितकालानदंशः, अत एव अभूत् , अस्ति, भविष्यतीति बुद्धिः । जाते हि माने मानविषयता, न पूर्वमेव ; अतश्च न मानविषयत्वम् अस्ति ’ इति बुद्धेर्विषयः । ततो धूमादिभ्यो वहचादौ जाने मरने पश्चात ‘अस्ति’ इति बुद्धि स्यात् । सा तु खयमानैव ‘अस्ति’ इति ज्ञायते । । अतो मानविषयत्वादन्य। वस्तुस्वभावभूता सत्तास्तीति भावः । अस्ति 'बुद्वधेव दूषणोपपत्ती भूतभविष्यदर्थमुद्युपन्यासो वक्ष्यमाणदूषणार्थः । अथ माने जाते पश्चात् अस्ति 'बुद्धिर्भवतीयुच्यते, तत्राह। प्रमाणादुत्तरकाले --भिद्यतेतेि अस्ति ’ इति बुद्धिर्भवतीति न त्रिधा भूतभविष्यद्वर्तमानविषयत्वेन भिद्येत, आपि तु वर्तमानविषयैव स्यात् । यद्यपि वस्तु त्रिकालम्_, तथापि प्रमाणंसंबन्धस्त्रिष्वपि वर्तमान एवेत्यर्थः । वाशब्दः पक्षान्तरविकल्पार्थः । नास्तीति बुडेरिति ; अस्ति ’ इति बुडेः तत्प्रमाणावगम्यत्वं न विषय इति योज्यम् । पूरविशेषादेति ; सेतुनिमित्तपूरनिदृश्यर्थं विशेषग्रहणम् । मेघोदयविशेषादिति च विरोधिवायुसंयुक्तमेघनिवृध्यर्थम् । वैयात्यादिति ; घाट्यदित्यर्थः । अथ स्वात्मसंबन्धितया या प्रमाणविषयता, सैव धूमादिलिङ्गत्रयजेन प्रमाणेन गृह्यते ; अतोऽस्त्यर्थबुद्धेः प्रमाणविषयाया अपि नोत्तरकालता, न च मिते स्यादित्युच्यते ; तथापि त्रिकालेष्वर्थेषु तत्प्रमाणावगम्यतया वर्त मानत्वादस्यर्थबुद्धिर्न त्रिधा भिद्यत । ॐच इथं सति स्खविषयतयैवा त्यर्थः प्रमाणेन गृह्यत इत्यरुयर्थनिष्ठेऽपि वचसि प्रमाणान्तरापेक्षा न स्यात् । अतो यदुक्तम्--तथा चास्यर्थनिष्ठ वाक्यं प्रमाणान्तरापेक्ष मिति, तदयुक्तमिति । तदेतत् सर्वमाह--अथेति । अथ खविषयता लिहून प्रमाणेन न गृयते, किंतु प्रमाणान्तर- विषयता; कि तत् प्रमाणान्तरमिति चेत् , प्रत्यक्षमिति ब्रूमः । तच त्रिकालम्; तथाहि - भूते भूतं कस्यचित्प्रत्यक्षम्, अनागसे अनागतम् ,
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५३४
दिखावट