पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भए। । | 1। । विरोधः । ननु ब्रह्म साक्षाच्चेत भाति, कथं तर्हि ‘ आम्नायतः प्रसिद्धिं च' इत्यत्रान्नयैकप्रमाणकं तदुच्यत इत्याशङ्कयाह -अविद्यावतमिति । यद्यप्यविद्यावतामपि आत्मा साक्षाद्भाति, तथापि न बह्मरूपेण ; अपि वहंकारानुब बेन जैवरूपेण । विद्यावतां तु निमुक्ताहंकारादिग्रन्थिः साक्षाद्भातीति विशेषः । ननु प्रमाणविषयता सत्ता ; नित्यमप्रकाशवि भीवः प्रमाणम् । न हि तप्रत्यक्षम् , अनिन्द्रियजत्वात ; अनुमानादि तु दूरनिरस्तावकाश्म् । न च ब्रह्मणस्तद्विषयता ; भिन्नयोर्हि विषयवषयि भावो भवति ; न च ब्रह्मतस्नाकाशयोर्भदोऽस्ति, हैतप्रसङ्गात् । उच्यते प्रमणविषयतां सत्ताभिच्छतापि प्रमाणफलमनुभवः संदिष्टः । न स प्रमाणविषयःखयंप्रकश्वाभ्युपगमात् । अतस्तस्य सत्ता न स्यात् । न चैवमिष्टम् । अतः प्रतिभासमानतामात्रं प्रमाणविषयता । परस्येष्ट, न तु विषयविषयिभावः । तादृश च सा ब्रह्मण्यप्यस्तीति सिद्धान्ती मन्यते । यत्तु नेदं प्रत्यक्षम्, अनिन्द्रियजत्वादियुक्तम्; तत्र ब्रूमः—न इन्द्रियजं प्रत्यक्षम्’ इति प्रत्यक्षलक्षणम् ; , अपितु साक्षात्प्रतीतिः ; अन्यथा अनुभवोऽप्रत्यक्षः स्यात् । सा च ब्रह्मण्यप्यति न दोषः । यस्वि- न्द्रियजं सूत्रकृतोक्तम्, तद्वहिर्वषये । साक्षात्प्रतीतिरितन्द्रियजा । तेन घेर्मादौ बुद्धादेर्भावनाबलजा न युज्यते । अतो धमें चोदनैव प्रमाण- मिति दर्शयितुमिति सर्वमनाकुलम् । यत्तूक्तम्-प्रमाणान्तरसंबन्धस्य त्रैकाल्यात् ‘ अभूत् , अति, भविष्यति ’ इति वैविध्यमिति, तदप्ययुक्त मित्याह--अपिचेति । यदि मीयमानता सत्ता, ततः प्रमाणान्तरमपि मीयमानत्वात् सदेव ; सत् वर्तमानम् ; अतस्तस्यैत त्रैकार्यमसिद्धमिति समुदयार्थः । इदानीं दूषणान्तराभिधित्सया विकरुपयति अपिचेति । प्रमाण संबन्ध इति श्लोकस्थयोगविवरणम् । तद्विपर्ययोऽसत्तेति ; वर्तमानप्रमाणा संबन्धोऽससेत्यर्थः । अनाश्रितकाठविशेषमित्यत्र प्रमाणसंबन्धः सत्ता, तद्विपर्ययोऽसत्ता’ इत्यनुषजनीयम् । तदा च प्रमाणमत्रायोगो विपर्ययोऽ भिमतः । तत्राचे तावत् पक्षे दोषमाह--तत्रेति । मते इति ; सत्तासत्ते समुचित्य द्विवचनम् । पूर्वप्रमितं हि स्मर्यते ; अतोऽस्य वर्तमानप्रमाण-