- ५॥ नयागकाण्ड: प्रमाणान्तरार्थत्वेन सापेक्षत्वादप्रामाण्यं स्यादिति प्रमाणान्तरासंभवय कार्यपरत्वमाश्रयितव्यमित्यभिप्रायेण परः पृच्छति - अथेति । सिद्धान्तं तु प्रमणान्तरसं भवान् सापेक्षत्वं मा भूदिति नेदं तन्निराकरणस्य प्रयोजनम् ; अपितु धर्मतत्वज्ञानम् ; सापेक्षस्त्रमपौरुषेयत्वादेव दूरनिरस्तवकाश- मित्यभिप्रायेणाह--धमेति । कुत इत्यत आह-प्रमानेति । प्रमाणान्तर संभव हि बुडादिप्रत्यक्षगोचरश्चैन्यवन्दनादिषि धर्मः स्यात् ; तत्रानि होत्रादिरेव धर्मतचमवधारितं न स्यादित्यर्थः । किं तेनावधारितेनेति चेत्, अत आह--तदिति । अयं यत्न इति ; प्रमाणान्तरनिराकरणयन इत्यर्थः । अथ चोदनाप्रामाण्यर्थ एव स किं न स्यादित्यत आह-चोदनेतेि । चोदनाप्रामाण्यमपि धर्मतत्त्वनिर्णयार्थमेवान्विष्यते । अतः स एव प्रधानम् , न चोदनाप्रामाण्यम् । न च प्रधानार्थत्वे संङ्गवत्यप्रधानार्थतोचितेति भावः अथवा प्रमाणान्तरसंभवे विरुद्धार्थमपि कदाचित्स्यान् ; था अग्नीषोमीय हितादेर्धर्मत्वे विहारप्रवेशाश्च धर्मत्वे बुद्धप्रत्यक्षम्; तत्र च दुर्बलस्बे चोदनायास्तेन बधा स्यात् , तुल्यबलवे च सेशयः संभवेन् ; तेन बधसंशयोत्थाप्रामाण्यनिवृत्तये प्रमाणान्तरासं भवः प्रतिपद्यते न संप्रयोग सूत्रण ; न तु प्रमाणान्तरसंभवे सापेक्षतानिबन्धनाप्रामाण्यनिवृत्यर्थ- मित्याह--अथवेति । ननु यदि विरोधिप्रमाणान्तरे संभवति शब्दो न प्रमाणं स्यात् तत्प्रामाण्याय तर्हि विरोधिनः प्रमाणान्तरस्यामावोऽपेक्ष
णयः ; अतश्च सापेक्षत्वं तदवस्थम् । भूतार्थेषु च वेदान्तेषु येषु प्रमाणान्तरसंभवान्न तदभावःतेषां प्रामाण्यं न स्यादित्यभिप्रायेण चोद यति---नन्विति । तिडन्ती तु काममपश्यतां विरोधिप्रमाणान्तराभावः तत्रापि न तावच्छब्दस्य सापेक्षत्वम् ; प्रमाणान्तरापेक्षत्वं हि सापेक्षत्वम्_ ; न च प्रमाणान्तराभावः प्रमाणान्तरम् , अनवबोधकत्वादित्याह –काममि त । यदि च भूतार्थेषु विरोधिप्रमाणान्तरसं मवमात्रेणाप्रामाण्यं स्यात् , ततः प्रत्यक्षादावपि भूतार्थे तस्यादित्याह--विरोधीति । किंच विरोधिप्रमाणान्तर संभवादप्रमाण्यं कार्यनिष्ठत्वेऽपे वेदान्तानामपरिहार्यमित्याह - अपिचेति । कुत इत्याह-कर्तव्येति कार्यनिष्टस्वेऽपि वेदान्तानां प्रतिपत्तिकर्मव्यता । पेक्षितप्रतिपत्तव्यात्मस्वरूपभूतार्थप्रभिपत्तेरिष्टत्वात् , तत्र च प्रमाणान्तरविरोध