मासाद्०याख्या संभावना यतोऽस्तीत्यर्थः । एवं तावत् न तु तदभावोऽपेक्षणीयः । इति परोक्तं दूषितम् । अधुन पराभिप्रायमनुभाष्य तत्र पूर्वोक्तं दोष- मनुकोत्र्य तमुपजीव्य ‘भूतार्थमपि ’ इत्युपसंहारपरं श्लोकार्थं योजयति भूतार्थस्येति । तेनेति ; परेणेत्यर्थः । किलशब्दोऽरुचिद्योतनार्थः । कार्य . निष्ठत्वे तु स्वतन्त्रेणेत्यत्र ' अर्थे प्रतिपादयति ’ इत्यनुषज्यते । तत्र गोचरत्वात् इत्यन्तेन पराभिप्रायानुभाषणम्। ‘उक्तेन ’ इत्यादिना ‘न च संभव- मात्रं सापेक्षत्वम्’ इत्यन्तेनोक्तदोषानुकीर्तनम् । भूतार्थमपीत्यादिना चोप संहार इति विवेकः । इदानीं वेदान्तानामविधिशेषत्वे क्रियां विना पदार्थससर्ग एव न स्यादित पराक्तं दोषमाशङ्कयति--अथेति । क्रियथा विना ( पदार्था न संसर्गभाजो भवन्ति ; तस्मात् ‘सत्यं ज्ञानमनन्तं ब्रह्म ’ इत्यादिपदार्थानां तव संसग न स्यादिति भावः । तदूषयति--किमिति । क्रियां विना चेन्न संसर्गः, अस्तु तर्हि क्रिया ; झिमयात विधेः ? येन तदनुप्रवेशो वेदान्तानां वण्र्यत इत्यर्थः । ननु साप्यधूयमाणा वेदान्सेधं दुर्लभेत्यत आह-सापीति । सापि क्रिया अस्त्यादिरूपा क न सुलभा ? अपितु सर्वेनैव सुलभा ; यत्रान्यत् क्रियापदं न भूयते, तत्र “ अस्तिर्भवन्तीपरः प्रयोक्तव्यः" इति न्यायेनास्तिक्रिया सुलभैवेत्यर्थः । “ अस्तिः ’ इति धातुना तदर्थं लक्षयति; यजातस्तु द्रव्यदेवताकयम् " इतिवत् । आदिशब्देन यथासंभवमन्याः क्रिया गृह्यन्ते ; यथा “ द्वारं वारम्’ इत्यत्र अपाव्रियतां, संव्रियताम्' इति । वेदान्तेष्वस्तिक्रियैव विवक्षिता । एत द्विवृणोति-यदीत्यादि । आख्यातपदार्थः क्रिया, तां विना न प्राति पदिकार्थानां . संसर्गः; यतः क्रियाप्रातिपदिकार्थनामन्योन्यमरुणैकहायनी न्यायेन संश्लेषहेतुः कृतः । प्रातिपदिकार्थानामन्योन्यसंसर्गाभावे क्रियायाः साकाङ्क्षत्वात् ; क्रिया हि साध्या, प्रातिपदिकार्थश्च सिडःच साध्यं सिद्धमपेक्षते ; तच्च विशिष्ट पदार्थान्तरसंसर्गेण विशिष्टं भवति, एह्रयनी बारुणिम्ना । तेनान्योन्यं नान्यार्थी क्रिया संसर्गमाकाङ्क्षते ; आकाङ्क्षा हेतुकॐ पदार्थानां संसर्गः । तेन किमा तेषां संसर्गहेतुः । अतस्तया विन न भूतार्थसंसर्गसिद्धिरित्यर्थः । गत को दोष इत्यत आह-अत } A ६ १८
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५३२
दिखावट