पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

96 द्रक्षसांडव्याख्या P.88-10. कत्वात् अस्य पुरुषत्रचसो मानान्तरे व्यपेक्षेति । तद्विधस्येति संभवप्रमाणान्तरस्य विनियोगस्येत्यर्थः । उक्तमर्थं सोपपतिकमुपसंहरति-तस्मादिति । मानान्तरात् अर्थे गत्वा ज्ञात्वा परस्य श्रोतुर्थप्रतिपत्तये पुरुषो वचः प्रयुइते । तेन तद्भिरि पुरुषवचसि प्रमाणान्तरसंभवत् पुरुषवचसः प्रमाणान्तरमेभेदो भवातं । अतो न प्रमाणान्तरसंभवात्पुरुषवचसः प्रमाणान्तरम्यपक्षेत्यर्थः । प्रमाणान्तर सापेक्षत्वेन पुरुषवचसः संभवप्रमाणान्तरो विनियोगो विषयो जातः, न तु संभवप्रमाणान्तरविषयत्वेनास्य मानान्तरव्यपेक्षयुक्तं भवति । तत्रेति ; परुषवचसीत्यर्थः । अपेक्षाफलमाह--यत्रेति । संभवत्यस्येत्यस्यासंभव दुपलम्भशृङ्गादिवाक्यमदृष्टविषयं व्यतिरकः , न चानुपलभ्य इत्यस्य च संभवदुपलब्घिकमपि दृष्टविषयमनाप्तवाक्यं व्यतिरेक इति विवेकः । वक्तमर्थमावार्यसंमत्या द्रढयति--अपौरुषेयेति । तेन यत एव । पौरुषेयापौरुषेयत्वनिबन्धने सापेक्षत्वानपेक्षवे, तेनैव हेतुनेत्यर्थः । अनपंक्षा- व्यपेक्षत्वयोर्भिमित्ते इति षष्ठीसमासः । यतः पौरुषेयत्वनिबन्धनं सापेक्ष त्वम् , अतो पुरुषबुद्धिजं यद्वेदान्तवाक्यं त्दृतार्थमपि सत् न सापेक्षम ; अतो नाप्रमाणम् । अतस्तस्यानपेक्षत्वेन प्रामाण्यासिद्यर्थं कार्यपरत्व कल्पना व्यर्थेति भावः । कथमौत्पत्तिकत्वेनानपेक्षत्वमित्युक्तमत आह औत्पत्तिके हीति ; नित्ये हि शब्दार्थसंबन्धे सति अपौरुषयत्वात् प्रमाणा नपेक्षत्वं भवतीत्यर्थः । ननु सत्संप्रयोगसूत्रेण प्रमाणान्तरासंभवोऽयुक्तः ततोऽसंभवोऽनपेक्षत्वे हेतुरिति सिद्धार्यत्वे प्रमाणान्तरसंभवात् सापेक्षत्वेना प्रामाण्यं मा भूदिति तदसंभवाय कार्यार्थत्वं वेदान्तानामवश्यमाश्रयणीयः मित्यभिप्रायेण चोदयति--नन्विति । सिद्धान्ती तु सस्यमुक्तं प्रमाणान्तरा संभवः; किंतु प्रमाणान्तरे सति चोदनैवेत्यवधारणं न स्यात् : अतस्तदर्थे स उक्तः; न स्वनपेक्षत्वेन चोदनाप्रामाण्यार्यमित्याह- सत्यमिति । यदि प्रमाणान्तरसंभवेऽपि चोदनप्रामाण्यं स्यात्, ततः किं निरा करणेन ? तेन सापेक्षत्वेन चोदनाप्रामाण्यव्याघातो मा भूदिति प्रमाणन्तर निराकरणं कृतम् ; अतो युके सिद्धार्थानां च वेदान्तानां संभव