गम्यते । *तच्चाऽसन्दिग्धविपरीतानधिगतविषया । चि- त्तवृत्तिः । बोधश्च पौरुषेयः फलं प्रभा, तत्साध- नं प्रमाणमेितेि । एतेन-स्संशयविपर्य्स्मृतिसाधने- ष्वप्रमणेष्वप्रसङ्गः ॥
प्रमात्वमाह । असन्दिग्धेत्यादि । स्मृतिमाधारणे तु अनधिगतपदं न देयम् । अविपरीतः-अवाधितः । सिद्धान्ते चक्षुरादेः करणत्वाभावादाह । चित्तवृत्तिरिति । 'तत्साधनं प्रमाणम्' इत्यत्राऽन्वेति । प्रमाणस्वरूपमाह । बोधः परुषेय इति । चैतन्यप्रकाशस्वरूप इत्यर्थः । ननु चैतन्यप्रकाशस्य नित्यत्वात्कथं प्रमाणफलत्वव्यवहारः ? इत्यत आह । फलं प्रमेति । तथा च चैतन्यप्रकाशस्य नियत्वेऽपि तत्तदर्थोपरक्तवृत्तिप्रतिबिम्बाश्रयत्वेन प्रमाणकार्य्यवदित्यर्थः । एतेनेति । असन्दिग्धादिनिवेशनेनेत्यर्थः।
यत्तु-असन्दिग्धेत्यारभ्य फलमित्यन्तं प्रमालक्षणमिति, तन्न । चित्तवृत्तेः प्रमात्वे इन्द्रियाणां करणत्वापत्तेः ।
यत्तु-चित्तवृत्यन्तं ‘प्रमाणम्’ इत्यत्राऽन्वेति । प्रमामाह । बोधश्चेति । पौरुषेयः- तादृशवृत्तिसंसर्गाञ्चिदनुग्रहः[१]।
क्षय वृत्तौ प्रमात्वं । स्वीकृत्य तत् । तथा च सूत्रम् (साङ्ख्य० अ० १ सू० ८७)-‘द्वयोरेकतरस्य वाऽप्यसन्निकृष्टधुपरिच्छित्तिः-प्रमा, तत्साधकतमं यत्, तत् त्रिविधं प्रमाणम्’ । द्वयोः -बुद्धिपुरुषयोः । एकतरस्य-तदन्यतरस्य । असन्निकृष्टार्थः-अनधिगतः । परिच्छित्तिः अवधारणम् । साधकतमम्-करणम् । भावार्थश्च प्रसङ्गदेवाऽस्य वक्ष्य- माणेन ‘अत्र’ इत्यादिना भाष्येण समीपे (पृ० १२० पं० १४) एव ज्ञातव्य इत्याशयः !
* तञ्च=श्रमrण च ।
१ चिति प्रतिबिम्बं-चिदनुग्रहः । अस्मिन् मते चक्षुरादिद्वारा
निर्गत्य विषयाकारेण परिणतं यत् बुद्धिदर्पणम् , तत्र प्रतिबिम्बितं चै
तन्यमेव मुख्यं प्रमाफलं ‘घटमहं जानामि’ इत्याद्याकारकं ‘अयं घटः’
इत्याद्याकारकबुद्धिवृत्तिरूपकरणेन जायमानम् । अत्रत्यसिद्धान्तिभते-
- ↑ १