तमिममर्थं प्रामाणिकं कर्तुमभिमताः प्रमाणभेदा लक्षणीयः । न च समन्थलक्षणमन्तरेण शक्यते विशेषलक्षणं कर्तुम्, इति प्रमाणसामान्यं तावल्लक्षयति-
दृष्टमनुमानमाप्तवचनं च, सर्वेप्रमाणसिद्धत्वात् ।
त्रिविधं प्रमाणमिष्टं, प्रमेयसिद्धिः प्रमणाद्धि ॥ ४ ॥
“प्रमणामिष्टम्" इति । अत्र च ‘प्रमाणम्’ इति
समाख्या लक्ष्यपदम् । तन्निर्वचनं च लक्षणम् ।
प्रमीयतऽनेनोति निर्वचनत् प्रमां प्रति करणत्वमव-
नानाव्यक्तीनां परस्परव्यभिचारेण व्यञ्जकत्व सम्भवे एकस्यैव
कस्यचिदुपाधेर्व्यञ्जकत्वं वाच्यम् । तथा च तुल्यन्यायेन तत्राऽपि व्य-
जकान्तरावश्यकत्वेऽनवस्थापत्तिरिति वाच्यम् । [१]जास्यतिरिक्त-
बादिमतेऽप्युक्तदोषसाम्यात् । एतेन ‘व्यञ्जकचरणशरणावश्यकत्वे
जातिकल्पनवैयर्थम्' इति परास्तम् ॥ ३ ॥
२[२]उपोद्धातसङ्गर्तिं दर्शयन्नर्यागवतारयति-तमित्यादिना । व्याप्यरूपविशेषस्य व्यापकाधीनत्वादाह् । नचेति।‘प्रमाणसमा न्यं लक्षयति' इत्युक्तम्,तञ्च न सम्भवति । आर्य्यायं लक्षणादर्शनात्, इत्याशङ्क्याऽऽह । अतचेति । 'प्रमाणम्' इति समाख्यया-लक्ष्य- बोधकं पदमित्यर्थः । स्मृतेरविसंवादिप्रवृत्तिजनकत्वेऽपि व्यावुत्ति- व्यवहारान्यतरभैयाजनाय[३] प्रमात्वस्याऽभिधानात्तद्व्यावृत्तम्--
१ ये जातिमतिरिक्तस्वेनाऽभ्युपगच्छन्ति, तन्मते-नैयायिकम ते इत्यर्थः ।
२ चिन्तां प्रकृतसिद्ध्यर्थामुपोद्घातं विदुर्युधः।
३ अत्र व्यावृत्तिः -इतरभेदानुमितिः व्यवहरश्व-'प्र्मा’ ‘प्रमा’
इत्यादिव्यवहारानुमितिः । मुग्धं प्रति सम्प्रतिपन्नेन तस्य सिद्धिः कार्या-
इयं प्रमात्वेन व्यवहर्त्तव्या, असन्दिग्धाविपरीतानधिगतविषयचित्त
वृत्तित्वात्, यतन्नैवं तन्नवम् , यथा-अप्रमा । प्रमाणत्वमिति वक्तव्ये
प्रमावकथनं कार्यकारनाभेदेनेति भावः । अन्यथा ‘प्रमत्वमाह--
असन्दिग्धेत्यादि’ इति कथनं व्याहतं स्यात् । असन्दिग्धेत्यादिना
वृत्यात्मक-प्रमाणस्य निर्वचनात् । अथ च चक्षुरादेः करणत्वपे-