वदन्तोऽपि । हि -यतः प्रमाणादेव प्रमंयण सिद्धिः, अतः प्रमाणं त्रिविधमित्यर्थः, इत्याहुःतन्न[१]। प्रमेयाणां प्रमाणतः सिद्धेः प्रमाण- त्रैविध्यहेतुत्वासम्भवात्, प्रमातृस्वस्य वा । अन्तर्भावाद्यधीनतया तस्यैव [२]त्रैविध्यप्रयोजकत्वात् । ननु प्रमेयध्युत्पादनस्य प्रकृतो-
न्तिमतेऽर्थापयत्त्यनुपलव्धी उपमानं चेति त्रीण्याधेकानि, पौराणिकमते तु उपमानार्थापयनुपलब्धिसम्भवैतिह्यानि पश्चाऽधिकानीति बोध्यम् ।
१ 'सर्वप्रमाणसिद्धत्वात्इत्यत्र ‘प्रभेयाणां प्रमाणतः सिद्धः ’
इत्यर्थकतया प्रमाणत्रैविध्यहेतुत्वं यत् अभिमतम् , तन्न सभ्भवति ।
तथा हि-‘प्रमेयाणां प्रमाणतः सिद्धेःइति हेतुना प्रमाणत्रैविध्यं
साक्षात् साध्यते, आहोस्वित् परस्परया वा । न तावदद्यः हेतुसा
ध्ययोर्भिन्नधिकरणत्वत् । अन्यथा श्वेतः प्रासादःकाकस्य का-
र्प्ण्यात्, इत्यप्यनुमानं स्यात् । न द्वितीयः । परम्परयेत्यस्य कोऽर्थः?
यदि “यत् यत् प्रमाणतः सिद्धं, तत तत् प्रमेयम् इति व्याप्त्या प्रमाण-
त्रैविध्यस्यापि प्रमाणसिद्धमया प्रमेयत्वम् , तत्रैविध्यप्रमापकं प्रमाणं
तु परिशेषादनुमानम् अस्य हेतुस्त्यन्तभावादिरेवेतेि ‘प्रमेयाणां प्र
माणसिद्धेःअस्यास्ति प्रयोजकत्वम्” एवमथः , तदऽन्तर्भावादेरेव
प्रयोजकत्वं, अलं त्वदुक्तस्य प्रयोजकत्वेन । एवं 'प्रमrdसिद्धत्वात्
इत्यनेनापि न हे प्रमाणत्रैविध्यं साधितुं युक्तम् । एते प्रमातार इति
यथार्थतय ज्ञानं यदा भवेत् तदैव तषिद्धस्वस्य (तदभ्युपगतस्वस्य)
हेतुत्वं स्यात् । ततु तदैव, यदा तदीयपदार्थस्य प्रामाणिकत्वं
स्यात् । तथा चान्येन प्रमाणेनैव (अन्तर्भूतत्वादिहेतुकानुमानेनैव)
प्रमणवैविध्यस्य सिद्धिः । अन्यथाऽन्योन्याश्रयः स्यादिते ।
ऑपे तु प्रत्यक्षादित्रिके उपमनादेरन्तभावस्यैव प्रमा-
णवैविध्यहेतुत्वमित्याह-तत्रेत्यादिन . त्रैविध्यप्रयोजकत्वादित्यन्ते-
न । अनुमानप्रकारस्तु-उपमनादिकं प्रत्यक्षानुमानागमान्यत-
मम्, प्रत्यक्षाद्यन्तभूतत्वात , यत् यदन्तर्भूतं, तत् तदन्यतमम्
यथा पृथिव्याद्यन्तर्भूतं सुवर्णकरकादिकं पृथिव्याद्यन्यतमम् । न चात्र
साध्यहेत्वोरैक्येन स्वरूपसिद्धिः । अन्यतमरत्वस्य भेदकूटावच्छिन्न-
प्रतियोगिताकभेदवत्वरूपवत्, अन्तर्भावस्य च-यत्रान्तर्भावः तद्बृत्य
साधारणधर्मवत्व रूपत्वात् ।
२ उपमनदिप्रमाणानामन्तर्भवस्यैव ।