योगवासिष्ठः/प्रकरणम् १ (वैराग्यप्रकरणम्)/सर्गः २५

विकिस्रोतः तः
← सर्गः २४ योगवासिष्ठः/प्रकरणम् १ (वैराग्यप्रकरणम्)
सर्गः २५
अज्ञातलेखकः
सर्गः २६ →


पञ्चविंशः सर्गः २५
श्रीराम उवाच
अत्रैव दुर्विलासानां चूडमणिरिहापरः ।
करोत्यत्तीति लोकेऽस्मिन्दैवं कालश्च कथ्यते ।। १
क्रियामात्रादृते यस्य स्वपरिस्पन्दरूपिणः ।
नान्यदालक्ष्यते रूपं न कर्म न समीहितम् ।। २
तेनेयमखिला भूतसंततिः परिपेलवा ।
तापेन हिममालेव नीता विधुरतां भृशम् ।। ३
यदिदं दृश्यते किंचिज्जगदाभोगि मण्डलम् ।
तत्तस्य नर्तनागारमिहासावतिनृत्यति ।। ४
तृतीयं च कृतान्तेति नाम बिभ्रत्सुदारुणम् ।
कापालिकवपुर्मत्तं दैवं जगति नृत्यति ।। ५
नृत्यतो हि कृतान्तस्य नितान्तमिव रागिणः ।
नित्यं नियतिकान्तायां मुने परमकामिता ।। ६
शेषः शशिकलाशुभ्रो गङ्गावाहश्च तौ त्रिधा ।
उपवीते अवीते च उभौ संसारवक्षसि ।। ७
चन्द्रार्कमण्डले हेमकटकौ करमूलयोः ।
लीलासरसिजं हस्ते ब्रह्मन्ब्रह्माण्डकर्णिका ।। ८
ताराबिन्दुचितं लोलपुष्करावर्तपल्लवम् ।
एकार्णवपयोधौ तमेकमम्बरमम्बरम् ।। ९
एवंरूपस्य तस्याग्रे नियतिर्नित्यकामिनी ।
अनस्तमितसंरम्भमारम्भैः परिनृत्यति ।। १०
तस्या नर्तनलोलाया जगन्मण्डपकोटरे ।
अरुद्धस्पन्दरूपाया आगमापायचञ्चुरे ।। ११
चारुभूषणमङ्गेषु देवलोकान्तरावली ।
आपातालं नभोलम्बं कबरीमण्डलं बृहत् ।। १२
नरकाली च मञ्जीरमाला कलकलोज्ज्वला ।
प्रोता दुष्कृतसूत्रेण पातालचरणे स्थिता ।। १३
कस्तूरिकातिलककं क्रियासंख्योपकल्पितम् ।
चित्रितं चित्रगुप्तेन यमे वदनपट्टके ।। १४
कालास्यं समुपादाय कल्पान्तेषु किलाकुला ।
नृत्यत्येषा पुनर्देवी स्फुटच्छैलघनारवम् ।। १५
पश्चात्प्रालम्बविभ्रान्तकौमारभृतबर्हिभिः ।
नेत्रत्रयवृहद्रन्ध्रभूरिभाङ्कारभीषणैः ।। १६
लम्बलोलजटाचन्द्रविकीर्णहरमूर्धभिः ।
उच्चरच्चारुमन्दारगौरीकबरचामरैः ।। १७
उत्ताण्डवाचलाकारभैरवोदरतुम्बकैः ।
रणत्सशतरन्ध्रेन्द्रदेहभिक्षाकपालकैः ।। १८
शुष्कशारीरखट्वाङ्गभरैरापूरिताम्बरम् ।
भीषयत्यात्मनात्मानं सर्वसंहारकारिणी ।। १९
विश्वरूपशिरश्चक्रचारुपुष्करमालया ।
ताण्डवेषु विवल्गन्त्या महाकल्पेषु राजते ।। २०
प्रमत्तपुष्करावर्तडमरोड्डामरारवैः ।
तस्याः किल पलायन्ते कल्पान्ते तुम्बुरादयः ।। २१
नृत्यतोऽन्तः कृतान्तस्य चन्द्रमण्डलभासिनः ।
तारकाचन्द्रिकाचारुव्योमपिच्छावचूलिनः ।। २२
एकस्मिञ्छ्रवणे दीप्ता हिमवानस्थिमुद्रिका ।
अपरे च महामेरुः कान्ता काञ्चनकर्णिका ।। २३
अत्रैव कुण्डले लोले चन्द्रार्कौ गण्डमण्डले ।
लोकालोकाचलश्रेणी सर्वतः कटिमेखला ।। २४
इतश्चेतश्च गच्छन्ती विद्युद्वलयकर्णिका ।
अनिलान्दोलिता भाति नीरदांशुकपट्टिका ।। २५
मुसलैः पट्टिशैः प्रासैः शूलैस्तोमरमुद्गरैः ।
तीक्ष्णैः क्षीणजगद्वान्तकृतान्तैरिव संभृतैः ।। २६
संसारबन्धनादीर्घे पाशे कालकरच्युते ।
शेषभोगमहासूत्रप्रोते मालास्य शोभते ।। २७
जीवोल्लसन्मकरिकारत्नतेजोभिरुज्ज्वला ।
सप्ताब्धिकङ्कणश्रेणी भुजयोरस्य भूषणम् ।। २८
व्यवहारमहावर्ता सुखदुःखपरम्परा ।
रजःपूर्णतमःश्यामा रोमाली तस्य राजते ।। २९
एवंप्रायः स कल्पान्ते कृतान्तस्ताण्डवोद्भवाम् ।
उपसंहृत्य नृत्येहां सृष्ट्वा सह महेश्वरम् ।। ३०
पुनर्लास्यमयीं नृत्यलीलां सर्गस्वरूपिणीम् ।
तनोतीमां जराशोकदुःखाभिभवभूषिताम् ।। ३१
भूयः करोति भुवनानि वनान्तराणि
लोकान्तराणि जनजालककल्पनां च ।
आचारचारुकलनामचलां चलां च
पङ्काद्यथार्भकजनो रचनामखिन्नः ।। ३२
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे कृतान्तविलसितं नाम पञ्चविंशतितमः सर्गः ।। २५ ।।