योगवासिष्ठः/प्रकरणम् १ (वैराग्यप्रकरणम्)/सर्गः २६

विकिस्रोतः तः
Jump to navigation Jump to search


षड्विंशः सर्गः २६
श्रीराम उवाच ।
वृत्तेऽस्मिन्नेवमेतेषां कालादीनां महामुने ।
संसारनाम्नि कैवास्था मादृशानां वदत्विह ।। १
विक्रीता इव तिष्ठाम एतैर्दैवादिभिर्वयम् ।
मुने प्रपञ्चरचनैर्मुग्धा वनमृगा इव ।। २
एषोऽनार्यसमाम्नायः कालः कवलनोन्मुखः ।
जगत्यविरतं लोकं पातयत्यापदर्णवे ।। ३
दहत्यन्तर्दुराशाभिर्देवो दारुणचेष्टया ।
लोकमुष्णप्रकाशाभिज्वालाभिर्दहनो यथा ।। ४
धृतिं विधुरयत्येषा मर्यादारूपवल्लभा ।
स्त्रीत्वात्स्वभावचपला नियतिर्नियतोन्मुखी ।। ५
ग्रसतेऽविरतं भूतजालं सर्प इवानिलम् ।
कृतान्तः कर्कशाचारो जरां नीत्वाऽजरं वपुः ।। ६
यमो निर्घृणराजेन्द्रो नार्तं नामानुकम्पते ।
सर्वभूतदयोदारो जनो दुर्लभतां गतः ।। ७
सर्वा एव मुने फल्गुविभवा भूतजातयः ।
दुःखायैव दुरन्ताय दारुणा भोगभूमयः ।। ८
आयुरत्यन्तचपलं मृत्युरेकान्तनिष्ठुरः ।
तारुण्यं चातितरलं बाल्यं जडतया हृतम् ।। ९
कलाकलङ्कितो लोको बन्धवो भवबन्धनम् ।
भोगा भवमहारोगास्तृष्णाश्च मृगतृष्णिकाः ।। १०
शत्रवश्चेन्द्रियाण्येव सत्यं यातमसत्यताम् ।
प्रहरत्यात्मनैवात्मा मनसैव मनो रिपुः ।। ११
अहंकारः कलङ्काय बुद्धयः परिपेलवाः ।
क्रिया दुष्फलदायिन्यो लीलाः स्त्रीनिष्ठतां गताः ।। १२
वाञ्छाविषयशालिन्यः सच्चमत्कृतयः क्षताः ।
नार्यो दोषपताकिन्यो रसा नीरसतां गताः ।। १३
वस्त्ववस्तुतया ज्ञातं दत्तं चित्तमहंकृतौ ।
अभाववेधिता भावा भावान्तो नाधिगम्यते ।। १४
तप्यते केवलं साधो मतिराकुलितान्तरा ।
रागरोगो विलसति विरागो नोपगच्छति ।। १५
रजोगुणहता दृष्टिस्तमः संपरिवर्धते ।
न चाधिगम्यते सत्त्वं तत्त्वमत्यन्तदूरतः ।। १६
स्थितिरस्थिरतां याता मृतिरागमनोन्मुखी ।
धृतिर्वैधुर्यमायाता रतिर्नित्यमवस्तुनि ।। १७
मतिर्मान्द्येन मलिना पातैकपरमं वपुः ।
ज्वलतीव जरा देहे प्रतिस्फुरति दुष्कृतम् ।। १८
यत्नेन याति युवता दूरे सज्जनसंगतिः ।
गतिर्न विद्यते काचित्क्वचिन्नोदेति सत्यता ।। १९
मनो विमुह्यतीवान्तर्मुदिता दूरतां गता ।
नोज्ज्वला करुणोदेति दूरादायाति नीचता ।। २०
धीरताऽधीरतामेति पातोत्पातपरो जनः ।
सुलभो दुर्जनाश्लेषो दुर्लभः सत्समागमः ।। २१
आगमापायिनो भावा भावना भवबन्धनी ।
नीयते केवलं क्वापि नित्यं भूतपरम्परा ।। २२
दिशोऽपि हि न दृश्यन्ते देशोऽप्यन्यापदेशभाक् ।
शैला अपि विशीर्यन्ते कैवास्था मादृशे जने ।। २३
अद्यते सत्तयापि द्यौर्भुऽवन चापि ऊयते ।
धरापि याति वैधुर्यं केवास्था मादृशे जने ।। २४
शुष्यन्त्यपि समुद्राश्च शीर्यन्ते तारका अपि ।
सिद्धा अपि विनश्यन्ति कैवास्था मादृशे जने ।। २५
दानवा अपि दीर्यन्ते ध्रुवोऽप्यध्रुवजीवितः ।
अमरा अपि मार्यन्ते कैवास्था मादृशे जने ।। २६
शक्रोऽप्याक्रम्यते वक्रैर्यमोऽपि हि नियम्यते ।
वायुरप्येत्यवायुत्वं कैवास्था मादृशे जने ।। २७
सोमोऽपि व्योमतां याति मार्तण्डोऽप्येति खण्डताम् ।
मग्नतामग्निरप्येति कैवास्था मादृशे जने ।। २८
परमेष्ठ्यपि निष्ठावान्ह्रियते हीररप्यजः ।
भवोऽप्यभावमायाति कैवास्था मादृशे जने ।। २९
कालः संकाल्यते येन नियतिश्चापि नीयते ।
खमप्यालीयतेऽनन्तं कैवास्था मादृशे जने ।। ३०
अश्राव्यावाच्यदुर्दर्शतत्त्वेनाज्ञातमूर्तिना ।
भुवनानि विडम्ब्यन्ते केनचिद्भ्रमदायिना ।। ३१
अहंकारकलामेत्य सर्वत्रान्तरवासिना ।
न सोऽस्ति त्रिषु लोकेषु यस्तेनेह न बाध्यते ।। ३२
शिलाशैलकवप्रेषु साश्वभूतो दिवाकरः ।
वनपाषाणवन्नित्यमवशः परिचोद्यते ।। ३३
धरागोलकमन्तस्थसुरासुरगणास्पदम् ।
वेष्ट्यते धिष्ण्यचक्रेण पक्वाक्षोटमिव त्वचा ।। ३४
दिवि देवा भुवि नराः पातालेषु च भोगिनः ।
कल्पिताः कल्पमात्रेण नीयन्ते जर्जरां दशाम् ।। ३५
कामश्च जगदीशानरणलब्धपराक्रमः ।
अक्रमेणैव विक्रान्तो लोकमाक्रम्य वल्गति ।। ३६
वसन्तो मत्तमातङ्गो मदैः कुसुमवर्षणैः ।
आमोदितककुप्चक्रश्चेतो नयति चापलम् ।। ३७
अनुरक्ताङ्गनालोललोचनालोकिताकृति ।
स्वस्थीकर्तुं मनः शक्तो न विवेको महानपि ।। ३८
परोपकारकारिण्या परार्तिपरितप्तया ।
बुद्ध एव सुखी मन्ये स्वात्मशीतलया धिया ।। ३९
उत्पन्नध्वंसिनः कालवडवानलपातिनः ।
संख्यातुं केन शक्यन्ते कल्लोला जीविताम्बुधौ ।। ४०
सर्व एव नरा मोहाद्दुराशापाशपाशिनः ।
दोषगुल्मकसारङ्गा विशीर्णा जन्मजङ्गले ।। ४१
संक्षीयते जगति जन्मपरम्परासु
लोकस्य तैरिह कुकर्मभिरायुरेतत् ।।
आकाशपादपलताकृतपाशकल्पं
येषां फलं नहि विचारविदोऽपि विद्मः ।। ४२
अद्योत्सवोऽयमृतुरेष तथेह यात्रा
ते बन्धवः सुखमिदं सविशेषभोगम् ।
इत्थं मुधैव कलयन्सुविकल्पजाल-
मालोलपेलवमतिर्गलतीह लोकः ।। ४३
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे दैवदुर्विलासवर्णनं नाम षडविंशः सर्गः ।। २६ ।।