योगवासिष्ठः/प्रकरणम् १ (वैराग्यप्रकरणम्)/सर्गः २७

विकिस्रोतः तः
Jump to navigation Jump to search

श्रीराम उवाच ।
अन्यच्च ताताऽतितरामरम्ये
मनोरमे चेह जगत्स्वरूपे ।
न किंचिदायाति तदर्थजातं
येनातिविश्रान्तिमुपैति चेतः ।। १
बाल्ये गते कल्पितकेलिलोले
मनोमृगे दारदरीषु जीर्णे ।
शरीरके जर्जरतां प्रयाते
विदूयते केवलमेव लोकः ।। २
जरातुषाराभिहतां शरीर-
सरोजिनीं दूरतरे विमुच्य ।
क्षणाद्गते जीवितचञ्चरीके
जनस्य संसारसरोऽवशुष्कम् ।। ३
यदा यदा पाकमुपैति नूनं
तदा तदेयं रतिमातनोति ।
जराभराऽनल्पनवप्रसूना
विजर्जरा कायलता नराणाम् ।। ४
तृष्णानदी सारतरप्रवाह-
ग्रस्ताखिलानन्तपदार्थजाता ।
तटस्थसंतोषसुवृक्षमूल-
निकाषदक्षा वहतीह लोके ।। ५
शारीरनौश्चर्मनिबन्धबद्धा
भवाम्बुधावालुलिता भ्रमन्ती ।
प्रलोड्यते पञ्चभिरिन्द्रियाख्यै-
रधोभवन्ती मकरैरधीरा ।। ६
तृष्णालताकाननचारिणोऽमी
शाखाशतं काममहीरुहेषु ।
परिभ्रमन्तः क्षपयन्ति कालं
मनोमृगा नो फलमाप्नुवन्ति ।। ७
कृच्छ्रेषु दूरास्तविषादमोहाः
स्वास्थ्येषु नोत्सिक्तमनोभिरामाः ।
सुदुर्लभाः संप्रति सुन्दरीभिः
रनाहतान्तःकरणा महान्तः ।। ८
तरन्ति मातङ्गघटातरङ्गं
रणाम्बुधिं ये मयि ते न शूराः ।
शूरास्त एवेह मनस्तरङ्गं
देहेन्द्रियाम्भोधिमिमं तरन्ति ।। ९
अक्लिष्टपर्यन्तफलाभिरामा
न दृश्यते कस्यचिदेव काचित् ।
क्रियादुराशाहतचित्तवृत्ति-
र्यामेत्य विश्रान्तिमुपैति लोकः ।। 1.27.१०
कीर्त्या जगद्दिक्कुहरं प्रतापैः
श्रिया गृहं सत्त्वबलेन लक्ष्मीम् ।
ये पूरयन्त्यक्षतधैर्यबन्धा
न ते जगत्यां सुलभा महान्तः ।। ११
अप्यन्तरस्थं गिरिशैलभित्ते-
र्वज्रालयाभ्यन्तरसंस्थितं वा ।
सर्वं समायान्ति ससिद्धिवेगाः
सर्वाः श्रियः सन्ततमापदश्च ।। १२
पुत्राश्च दाराश्च धनं च बुद्ध्या
प्रकल्प्यते तात रसायनाभम् ।
सर्वं तु तन्नोपकरोत्यथान्ते
यत्रातिरम्या विषमूर्च्छनैव ।। १३
विषादयुक्तो विषमामवस्था
मुपागतः कायवयोवसाने ।
भावान्स्मरन्स्वानिह धर्मरिक्तान्
जन्तुर्जरावानिह दह्यतेऽन्तः ।। १४
कामार्थधर्माप्तिकृतान्तराभिः
क्रियाभिरादौ दिवसानि नीत्वा ।
चेतश्चलद्बर्हिणपिच्छलोलं
विश्रान्तिमागच्छतु केन पुंसः ।। १५
पुरोगतैरप्यनवाप्तरूपै-
स्तरङ्गिणीतुङ्गतरङ्गकल्पैः ।
क्रियाफलैर्दैववशादुपेतै-
र्विडम्ब्यते भिन्नरुचिर्हि लोकः ।। १६
इमान्यमूनीहि विभावितानि
कार्याण्यपर्यन्तमनोरमाणि ।
जनस्य जायाजनरञ्जनेन
जवाज्जरान्तं जरयन्ति चेतः ।। १७
पर्णानि जीर्णानि यथा तरूणां
समेत्य जन्माशु लयं प्रयान्ति ।
तथैव लोकाः स्वविवेकहीनाः
समेत्य गच्छन्ति कुतोऽप्यहोभिः ।। १८
इतस्ततो दूरतरं विहृत्य
प्रविश्य गेहं दिवसावसाने ।
विवेकिलोकाश्रयसाधुकर्म
रिक्तेऽह्नि रात्रौ क उपैति निद्राम् ।। १९
विद्राविते शत्रुजने समस्ते
समागतायामभितश्च लक्ष्म्याम् ।
सेव्यन्त एतानि सुखानि याव-
त्तावत्समायाति कुतोऽपि मृत्युः ।। 1.27.२०
कुतोऽपि संवर्धिततुच्छरूपै-
र्भावैरमीभिः क्षणनष्टदृष्टैः ।
विलोड्यमाना जनता जगत्यां
नवेत्युपायातमहो न पातम् ।। २१
प्रियासुभिः कालमुखं क्रियन्ते
जनैडकास्ते हतकर्मबद्धाः ।
यैः पीनतामेव बलादुपेत्य
शरीरबाधेन न ते भवन्ति ।। २२
अजस्रमागच्छति सत्वरैव-
मनारतं गच्छति सत्वरैव ।
कुतोऽपि लोला जनता जगत्यां
तरङ्गमाला क्षणभङ्गुरेव ।। २३
प्राणापहारैकपरा नराणां
मनो मनोहारितया हरन्ति ।
रक्तच्छदाश्चञ्चलषट्पदाक्ष्यो
विषद्रुमालोललताः स्त्रियश्च ।। २४
इतोऽन्यतश्चोपगता मुधैव
समानसंकेतनिबद्धभावा ।
यात्रासमासंगसमा नराणां
कलत्रमित्रव्यवहारमाया ।। २५
प्रदीपशान्तिष्विव भुक्तभूरि-
दशास्वतिस्नेहनिबन्धनीषु ।
संसारमालासु चलाचलासु
न ज्ञायते तत्त्वमतात्त्विकीषु ।। २६
संसारसंरम्भकुचक्रिकेयं
प्रावृट्पयोबुद्बुदभङ्गुरपि ।
असावधानस्य जनस्य बुद्धौ
चिरस्थिरप्रत्ययमातनोति ।। २७
शोभोज्ज्वला दैववशाद्विनष्टा
गुणाः स्थिताः संप्रति जर्जरत्वे ।
आश्वासनादूरतरं प्रयाता
जनस्य हेमन्त इवाम्बुजस्य ।। २८
पुनःपुनर्दैववशादुपेत्य
स्वदेहभारेण कृतोपकारः ।
विलूयते यत्र तरुः कुठारै-
राश्वासने तत्र हि कः प्रसङ्गः ।। २९
मनोरमस्याप्यतिदोषवृत्ते-
रन्तर्विंघाताय समुत्थितस्य ।
विषद्रुमस्येव जनस्य सङ्गा-
दासाद्यते संप्रति मूर्च्छनैव ।। 1.27.३०
कास्ता दृशो यासु न सन्ति दोषाः
कास्ता दिशो यासु न दुःखदाहः ।
कास्ताः प्रजा यासु न भङ्गुरत्वं
कास्ताः क्रिया यासु न नाम माया ।। ३१
कल्पाभिधानक्षणजीविनो हि
कल्पौघसंख्याकलने विरिञ्चयाः ।
अतः कलाशालिनि कालजाले
लघुत्वदीर्घत्वधियोऽप्यसत्याः ।। ३२
सर्वत्र पाषाणमया महीध्रा
मृदा मही दारुभिरेव वृक्षाः ।
मांसैर्जनाः पौरुषबद्धभावा
नापूर्वमस्तीह विकारहीनम् ।। ३३
आलोक्यते चेतनयाऽनुविद्धा
पयोनुबद्धोऽस्तनयो नभः स्थाः ।
पृथग्विभागेन पदार्थलक्ष्म्या
एतज्जगन्नेतरदस्ति किंचित् ।। ३४
चमत्कृतिश्चेह मनस्विलोक-
चेतश्चमत्कारकरी नराणाम् ।
स्वप्नेऽपि साधो विषयं कदाचि-
त्केषांचिदभ्येति न चित्ररूपा ।। ३५
अद्यापि यातेऽपि च कल्पनाया
आकाशवल्लीफलवन्महत्त्वे ।
उदेति नो लोभलवाहताना-
मुदारवृत्तान्तमयी कथैव ।। ३६
आदातुमिच्छन्पदमुत्तमानां
स्वचेतसैवापहतोऽद्य लोकः ।
पतत्यशङ्कं पशुरद्रिकूटा-
दानीलवल्लीफलवाञ्छयैव ।। ३७
अवान्तरन्यस्तनिरर्थकांश-
च्छायालतापत्रफलप्रसूनाः ।
शरीर एव क्षतसंपदश्च
श्वभ्रद्रुमा अद्यतना नराश्च ।। ३८
क्वचिज्जना मार्दवसुन्दरेषु
क्वचित्कठोरेषु च संचरन्ति ।
देशान्तरालेषु निरन्तरेषु
वनान्तखण्डेष्विव कृष्णसाराः ।। ३९
धातुर्नवानि दिवसं प्रति भीषणानि
रम्याणि वा विलुलितान्ततमाकुलानि ।
कार्याणि कष्टफलपाकहतोदयानि
विस्मापयन्ति न शवस्य मनांसि केषाम् ।। 1.27.४०
जनः कामासक्तो विविधकुकलाचेष्टनपरः
स तु स्वप्नेऽप्यस्मिञ्जगति सुलभो नाद्य सुजनः ।
क्रिया दुःखासङ्गाऽविधुरविधुरा नूनमखिला
न जाने नेतव्या कथमिव दशा जीवितमयी ।।४१

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे निःश्रेयसविरोधिभावानित्यताप्रतिपादनं नाम सप्तविंशतितमः सर्गः ।।२७।।