योगवासिष्ठः/प्रकरणम् १ (वैराग्यप्रकरणम्)/सर्गः २४

विकिस्रोतः तः


चतुर्विशः सर्गः २४
श्रीराम उवाच ।
अस्योड्डामरलीलस्य दूरास्तसकलापदः ।
संसारे राजपुत्रस्य कालस्याकलितौजसः ।। १
अस्यैवाचरतो दीनैर्मुग्धैर्भूतमृगब्रजैः ।
आखेटकं जर्जरिते जगज्जङ्गलजालके ।। २
एकदेशोल्लसच्चारुवडवानलपङ्कजा ।
क्रीडापुष्करिणी रम्या कल्पकालमहार्णवः ।। ३
कटुतिक्ताम्लभूताद्यैः सदधिक्षीरसागरैः ।
तैरेव तैः पर्युषितैर्जगद्भिः कल्ववर्तनम् ।। ४
चण्डी चतुरसंचारा सर्वमातृगणान्विता ।
संसारवनविन्यस्ता व्याघ्री भूतौघघातिनी ।। ५
ज्ञध्वी करतले ज्ञथ्वी पानपात्री रसान्विता ।
कमलोत्पलकह्लारलोलजालकमालिता ।। ६
विरावी विकटास्फोटो नृसिंहो भुजपञ्जरे ।
सटाविकटपीनांसः कृतः क्रीडाशकुन्तकः ।। ७
अलाबुवीणामधुरः शरद्व्योमलसच्छविः ।
देवः किल महाकालो लीलाकोकिलबालकः ।। ८
अजस्रस्फूर्जिताकारो वान्तदुःखशरावलिः ।
अभावनामकोदण्डः परिस्फुरति सर्वतः ।। ९
अनुत्तमस्त्वधिकविलासपण्डितो
भ्रमच्चलन्परिविलसन्विदारयन् ।
जरज्जगज्जनितविलोलमर्कटः
परिस्फुरद्वपुरिह काल ईहते ।। १०
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे कालविलासो नाम चतुर्विंशतितमः सर्गः ।।२४।