पृष्ठम्:नवरात्रप्रदीपः.djvu/३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३३
ग्रन्थकृत्परिचयः

तैरेव निजयुक्तिभिश्च परमतखण्डनं विधाय स्वसिद्धान्तः प्रत्यष्ठापि, किंबहुनोक्तेन निःसंशयं किलाऽस्य ग्रन्थस्य शैली सर्वाङ्गपूर्णतया श्लाघ्यतमा पुरोभागिनामपि हृदयं क्षणमात्रं मस्तकं सानन्दं धूनयत्येवेतीयतैव ग्रन्थपरिचयेनालम् । रसिकैर्ग्रन्थ एव सर्वमवलोकनीयम् ।

---

ग्रन्थकृत्परिचयः

 ग्रन्थकृद्विषयेऽपि सङ्क्षेपेणोच्यते । प्रकृतग्रन्थनिर्माता विनायकपण्डितः नन्दपण्डिताऽपराऽभिधः मुद्गलसगोत्रः काशीस्थमहाराष्ट्रभूमीसुरः धर्माधिकारीत्युपाख्यः आसीत् । अस्य पिता प्रसिद्धो विद्वान् रामपण्डिताऽभिधः आसीत् । इति प्रकृतग्रन्थान्तिमपद्यादवसीयते । अयं हि पदवाक्यप्रमाणपारावारपारीणः मूर्तिमान् धर्म एव नैकनिबन्धनिर्माणप्रतिष्ठापितनिष्कलङ्कतुहिनकिरणच्छविमहनीयकीर्तिरनेकभूपालमुकुटमणिमञ्जरीनीराजितचरणयुगलः सं० १६१०-१६९० वैक्रमवत्सरपर्यन्तं काश्यां विद्यमानः आसीत् । परमकृष्णभक्तोऽयं निजकुलजसर्वानपि पूर्वापरान् पुरुषानतिशय्यासीत् । अस्य वंशे तत्तच्छास्त्रीयमर्मविज्ञानां सर्वोच्चशिखरमारूढाः बहवः पण्डितोत्तमा अभूवन् । वंशोऽयमतिविस्तृतिमागत्य सम्प्रति बहुषु देशेषु नैकाभिः शाखाभिर्विराजते इति बहुलेखनीयमपि विस्तरभिया नाऽत्र लिख्यते । इतोऽधिकमनत्यल्पं मया "शुद्धिचन्द्रिका" भूमिकायां लिखितमिति तत एवाऽवसेयम् । महता विस्तरेण