पृष्ठम्:नवरात्रप्रदीपः.djvu/३८

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
३२
नवरात्रप्रदीपभूमिकायाम्-

चेतांसि” इतिस्थित्या तदपि समीचीनमेवेत्यलमियतैव । मतद्वयमिदं तत्तद्ग्रन्थेषु सुविशदमुपपादितमिति तत एवाऽवलोकनीयम् । एवं च कृते विचारे मतद्वये कतरस्समीचीनमिति मनीषिण एव विचरयन्तु ।

 इत्थं विचारितं पारणावादस्थलं सङ्क्षेपेण । अतः परमेतद्ग्रन्थस्य किं चिद्वैशिष्ट्यमुच्यते- अमुष्य ग्रन्थस्य लेखो गम्भीरः सरलः प्रसन्नः सुपरिणतश्चेति मनो रञ्जयन् प्रतिपाद्यतत्वानि पाठकचेतःसु प्रतिष्ठापयति । तत्र कानिचिदुदाहरणानि प्रदर्श्यन्ते – "एवं युक्तिमुक्ताकरम्बिते वचनचिन्तामणौ द्युमणौ परिस्फुरति नवरात्रशब्दस्य नामधेयत्वमनङ्गीकुर्वतां प्राच्यानामतितरा तमोवलितत्वमवगम्यते" ( पृ०८ ) "तद् रूपनारायणादिसर्वदेशीयशिष्टपरिगृहीतनिबन्धेषु प्रत्यक्षपरिदृश्यमानानामपि वचनानां करकङ्कणन्यायेनाऽपलापकौशलमायुष्मताम् । यत्पुनरेतेन तस्य नक्तव्रतत्वादिति वदन् माधवोऽपि प्रत्यादिष्ट इति तदपि भ्रान्तप्रलपितमेवेत्युपेक्षणीयम् । यतो हि ऋङ्मात्राऽनभिज्ञैराधुनिकैश्चतुर्विंशतिशाखापारदृश्यानामार्याणां माधवाचार्याणामधिक्षेपः कलिकालप्राबल्यमाचष्टे" ( पृ०१६ ) "तदेवं सिद्धा नवम्या पारणा । एवं च युक्तिमुक्ताकरम्बिते वचनचिन्तामणौ परिस्फुरति बुद्धिदरिद्राणां भिक्षालब्धसमाख्यामात्रेण कालाऽतिवाहनमतितरां दुरदृष्टं गमयति" ( पृ०१०९ ) इत्यादि । अहो रमणीयाऽस्य लेखशैली । प्रतिविषयं चाऽनेन ग्रन्थकृता प्रथम ऋषिवचनानि निर्दिश्य मीमांसान्यायैस्तत्सङ्गतिमभिधाय