पृष्ठम्:नवरात्रप्रदीपः.djvu/३७

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
३१
ग्रन्थपरिचयः

कथनमसङ्गतमेव । तेन च तत्तत्कालविशिष्टाया एव पूजायाः प्राधान्यमिति सर्वैरप्यङ्गीकरणीयमेव । यच्च धर्माधिकारिप्रभृतिभिः "नक्तव्रतमिदं मुख्यम्" इत्युच्यते पुनः पुनः, तत्र नक्तव्रतपदस्य नक्तकालकृतपूजायाः प्राधान्यम् इत्यर्थः, न तु दिवाभोजनत्यागपुरःसररात्रिभोजनरूपनक्तव्रतमिति । अत एव धर्माधिकारिकुले एकभक्तादिपक्षचतुष्टयादुपवासपक्ष एवाऽङ्गीकृतो दृश्यते । तथैवेतरेषामपि बहूनां विदुषां कुलरीतिः। ते हि "दुर्गोत्सवे"इत्युक्तवचनानुसार सप्तोपवासान् विधायाऽष्टम्यां किंचिद्भक्षं प्रकल्प्य नवम्यां पारणमाचरन्ति विसर्जनमात्रं च दशम्यामिति न नवरात्रत्वक्षतिः । एवं सति भट्टमतेऽपि कालविशिष्टाया एव पूजायाः प्राधान्यं वाच्यम् । नोपवासविशिष्टायाः तन्मते मुख्यः कालश्च पूर्वाह्णः तेन पूर्वाह्णविशिष्टपूजाया एव प्राधान्यात्तस्याश्च नवतिथिषु विहितत्वात् व्रतस्य च नवरात्रत्वात् रात्रिशब्दस्य च तिथिपरत्वात्, पारणान्तस्यैव च व्रतत्वात् पारणापर्यन्तं पूजायाः अवश्यं करणीयत्वात् दशमीपारयणायाः पूर्वाह्णपूजाऽवश्यमाचरणीयैवेति भट्टमते दशरात्रतापत्तिर्नोपायसहस्रेणाऽपि वारयितुं शक्यते इतेि नवमीपारणापक्ष एव समुचितः । यच्च पूर्वाह्णस्यैव मुख्यपूजाकालत्वप्रतिपादनं तदपि शक्तिपूजनरहस्यज्ञानविधुराणामेव शोभते । परं महदिदमाश्चर्यास्पदं यत् शक्तिपूजकत्वेन प्रसिद्धानां वङ्गीयविदुषां रघुनन्दनभट्टाचार्यादीनां मते कथं पूर्वाह्णस्य देवीपूजायाः प्रधानकालत्वमुक्तम् ? अथ वा "ज्ञानिनामपि