पृष्ठम्:नवरात्रप्रदीपः.djvu/१४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०१
पारणनिर्णयः

   अथ षष्ठः ।
तथा च धौम्यः--

 आश्विने शुक्लपक्षे तु कर्त्तव्यं नवरात्रकम् ।
 प्रतिपदादिक्रमेणैव यावच्च नवमी भवेत् ॥

तथा--

 शुक्लप्रतिपदारभ्य यावत्स्यान्नवमीतिथिः । इति ।

तथा--
 आश्विने प्रतिपन्मुख्याः पुण्याः स्युरिस्तथयो नव ।इति। एतेनाऽपि व्रतस्य नवमीपर्यन्ततैवोक्तेति । ननु ‘पार तीर कर्मसमाप्तौ” इत्यस्माद्धतोर्निष्पन्नः पारणशब्दो यद्यपि कर्ममात्त्रसमाप्तिमभिधत्ते तथIऽपि लोकशास्त्राभ्यामुपवाससमाप्तावेव पङ्कजादिवद्योगरूढो वाच्यः तथा च पारणस्य व्रतसमाप्तिरूपत्वेन व्रतप्रतियोगित्वेऽपि व्रतस्वरूपत्वाभावदुपवासाद्यात्मकस्य नवरात्रव्रतस्य “ यावच्च नवमी भवेत्‘’ इत्यादिनोक्ता नवमीपर्यन्तता न सिद्धा अष्टमीपर्यन्तमेवोपोष्य नवम्या पारणविधानादिति चेत् मैवम् । तथाडपि सिध्यत्येव नवमीपर्यन्तता। तथा हि पारणं नाम व्रतचरमाङ्गभोजन(१)मुच्यते ।