यथा हीष्टेश्वरमाङ्गं ब्राह्मणतर्पणम् । अङ्गत्वे चाऽस्य
'स्वयं च पारणं कुर्यात्' इत्यादिविधिश्रुतिरेव मानम्।
किं च पारणमङ्गं न स्यात्तर्हि द्वादश्यादिषु मुख्यपारणसङ्करे अङ्गिपारणं कुर्यादिति प्रतिनिधिनियमो नोपपद्येत न हि रागप्राप्तेषु प्रतिनिधिसम्भवः । अतः पारणशब्दबलात्प्रतिनिधिबलच्चाङ्गत्वं पारणस्य सिद्धम् ।
तदुक्तमादित्यपुराणे-
पारणान्तं व्रतं ज्ञेयं व्रतान्ते तद्विभोजनम्। इति ।
तथा च सङ्कल्पक्षणमारभ्य पारणान्तक्षणपर्यन्तं विततभावनान्तनिष्पातित्वेन पारणस्यापि व्रतरूपत्वम् । व्रतत्वेऽपि प्रधानत्वं नेत्यन्यदेतत् । नैतावता व्रतवक्षतिः । तथा च नवम्यनुष्ठीयमानव्रतस्य नवमीपर्यन्तता
सिध्यतीति न दोषः ।नन्विदं व्रतप्रयोगबहिर्भूतमेवाङ्गमस्तु “व्रतान्ते तद्विभोजनम् ” इत्यनेन व्रतसमाप्तौ तछ्रवणात् । यथा “संस्थाप्य पौर्णमासं वैमृधमनुनिर्वपति”
इत्यनेन पौर्णमाससमासौ वैमृधो विधीयते । संस्थापनान्तशब्दयोश्च पर्यायत्वादिति चेत् मैवम् । ‘पारणान्तं व्रतं ज्ञेयम्” इत्यस्य पारणया अन्तः समाप्तिर्यस्ये
पृष्ठम्:नवरात्रप्रदीपः.djvu/१४७
दिखावट
पुटमेतत् सुपुष्टितम्
१०२
नवरात्रप्रदीपे-