पृष्ठम्:नवरात्रप्रदीपः.djvu/१४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१००
नवरात्रप्रदीपे-

  विशेषपूजां दुर्गायाश्चक्रे लोकपितामहः।
 चक्रे कारयामासेत्यर्थः ।
 ततः सम्प्रेषिता देवी दशम्यां सा सुरोत्तमैः ।
 तथैव च नराः सर्व्वे कुर्युः पूजां यथाविधि ।इत्यादि।

  अथ सप्तरात्रमेव युद्धनिरीक्षिका देवी देवैः पूजि- तेति नरैरपि सर्व्वैः सप्तरात्रमेव पूजनीयेति वदता सप्तरात्रस्यैव प्राशस्त्येन प्राधान्यमुक्तमिति सप्तैवोपवासायुक्ता इत्येकं लिङ्गम् । तथा ज्योतिशास्त्रेऽपि नवरात्रप्रक्रमे ‘शुक्लपक्षे प्रतिपदि” इत्यादिना वाजिरक्षां विधाय

 एतत्प्रतिदिनं कुर्यात्सप्तरात्रमतन्द्रितः।
 कारयेद् ब्राह्मणैश्चैव शान्तिस्वस्त्ययनानि च ।
 सप्तरात्रे व्यतिक्रान्ते क्षौरितान्स्नापितांस्तथा ।
 अर्चितान्विविधैर्गन्धैस्ततो नीरजयेद् बुधः ॥इति।

अत्राऽपि सप्तरात्रप्राधान्यं दृश्यते । जपहोमार्चनादिसहचरितनामुपवासानामपि सप्तरात्रमेवाऽनुष्ठानं युक्तमित्यपरं लिङ्गम् । क्वचिद् द्वितीयायामित्यपि पाठस्तत्राऽपि समाप्तिर्नवम्यामेवेति न दोषः।