पृष्ठम्:नवरात्रप्रदीपः.djvu/१३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९३
पारणनिर्णयः

र्शनात्, व्रतस्य नवमीपर्यन्तताश्रवणात्, दशमदिवसे पारणनिषेधात्, दशमीपारणनिषेधात , दशमीविद्धनवमीपारणनिषेधात्, अधिकोपवासनिषेधाच्चेति दशहेतुसद्भावात् । तत्राऽऽद्यस्तावत् ब्रह्माण्डपुराणे-

 आश्विने शुक्लपक्षे तु नवरात्रमुपोषितः ।
 नवम्यां पारणं कुर्याद्दशमीसहिता न चेत् । ।

रुद्रयामलेऽपि--
 वासन्ते नवरात्रे तु पूज्या स्याद्रक्तदन्तिका । इति प्रक्रम्योक्तम्--  नवम्यां वा विशालाक्ष ! कार्या होमादिकाः क्रियाः।

 पारणं च प्रकुर्वीत देवीपूजनपूर्वकम् ॥

तत्रैव दशमीपारणं निन्दित्वोपसंहृतम्--

 तस्मात्तु पारयेद्देव ! नवम्यां भक्तितत्परः ।

तथा अन्वयव्यतिरेकाभ्यां नवमीपारणप्रशंसामुक्त्वोपसह्रतं तत्रैव--

 नवम्यां पारिता देवी कुलवृद्धिं प्रयच्छति ।
 दशम्यां पारिता देवी कुलनाशं करोति हि ॥
 तस्मात्तु पारणं कार्यं नवम्यां विबुधाऽधिप!इति।