स्ति च तत्-
दुर्गोत्सवे स्मृतं देव ! उपवासस्य सप्तकम् ।
अष्टमे दिवसे होमस्ततः किंचित्तु भक्षयेत् ।
इति रुद्रयामलीयं वचनम्। श्रुतिश्चेय “उपवासस्य सप्तकम्’ इतिसमाख्यातो बलवती । ततो न्यूनबला समाख्या नोपवासेष्ववच्छेदिकां सङ्ख्यां विनियुङ्क्ते । तथा चोपवासनां नवसङ्ख्यत्वेन नवम्यभिव्याप्तौ दशम्यां पारणमर्थसिद्धमिति कुत एतत् । किं च नवम्या पारणं कुर्यात्’इत्यादिपारणाकालविधायकश्रुतिसद्भावेनार्थेन लिङ्गेन तत्कल्पना युक्ता । अत्र "पूर्णान्तम्" इति वचनबलेन दशम्यां पारणमित्युच्यते तदपि न । तस्याऽपि पूर्णायां दृशम्यामन्तो विसर्जन यथा भवति तथा पूजयेदित्यर्थपरतयाऽवश्यव्याख्येयत्वात् । अन्यथा नवमीपारणविधयकवाक्यैर्विरोधो दशमीविसर्जनविधायकवाक्यैर्भिन्नमूलकता वाऽस्य केन वार्येत । तस्मान्न दृशम्यां पारणं किं तु नवम्यामेव । नवमीपारणविधायकवचननिचयात्, तादृशविधिलिङ्गदर्शनात्, सप्तोपवासविधिबलात् , अष्टमपर्यन्तोपवास विधेः, सप्तोपवासलिङ्गद-