पृष्ठम्:नवरात्रप्रदीपः.djvu/१३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९४
नवरात्रप्रदीपे-

पुनश्च तत्रैवोपसंहृतम्--

 नवम्यां पारणं कार्यमन्यथा दुःखदं भवेत् ।
इति वचननिचयसत्त्वान्नवम्यां पारणम् ।

  अथ द्वितीयः ।

नारदीयपुराणे पूर्वोदाहृतनवरात्रप्रस्तावे
 हविर्द्रव्याणि जुहुयाद् दुर्गाष्टम्यां विशेषतः ।
 रात्रौ जागरणं कुर्याद् गीतवाद्यपुरस्सरम् ॥
 ततः प्रभाते विमले प्रातःस्नात्वा यथाविधि।

इत्यादिनाऽष्टम्युत्तरदिनकृत्यं किंचिदुक्त्वान्तेऽभिहितम्--

 स्वयं च पारणं कुर्यादिष्टबन्धुजनैः सह ।
 अहःशेषं समासीत शिष्टैरिष्टैः शिवाप्रियैः ॥इति।

एतेनाऽष्टम्यां रात्रौ होमजागरणाद्यनेकधर्मानभिधाय प्रातरपि स्नानदेवीपूजनकुमारीभोजनद्विजपूजनव्रतपूर्णतावाचनाद्यनन्तरं पारणविधानान्नवम्यामेव तत्सिध्यतीत्येकं लिङ्गम् । किं च रुद्रयामलेऽपि नवरात्रप्रक्रमे---