129 पुनः प्रधानं नास्ति’ इत्युक्ते सिद्धे जगत्कारणे अन्यत्र सिद्धा सुख दुःश्वमोहात्मता निवार्यते । तया कार्यकारणयोरत्यन्तमभेदादविभक्तकार्यत्वं सत्कार्यत्वं च मृदटादौ ‘मृदयं घटः’ इत्यादिप्रमाणसिई प्रधाननिषेधेन वार्यत इति नात्रापि विषयप्रतिषेध्ययोरसिद्धिरिति भावः अविभक्तं संभिनं कार्यं यस्मात्तत् तथोक्तम् , तस्य भावस्तवम् । अत्रैव मतान्तर माह---अन्ये त्विति । सादृश्यवासनान्यायाभासवाक्याभासादेः कुतश्चि निमित्तात् बुद्धौ लब्धरूपाणां बुद्याकाराणां सतां स्खपुष्पादीनां बहिर्वदव भासमानानां बहिर्निषेधः क्रियत इत्यन्ये वर्णयन्तीत्यर्थः । इत्थमवर्यमाने दु प्रतिषेध एव न सिध्यतीत्याह--अन्यथेति । अन्यथा एवमवर्यमाने सर्वथा अप्राप्ते वपुष्पादौ दैवनिषिद्ध कः प्रतिषेधः ? न कोऽपीत्यर्थः; न ह्यप्राप्तं प्रतिषिध्यते ; प्राप्तं च नात्यन्तिको निषेचः स्यादित्यर्थः । तदेवं सिद्धे विषये सिद्धमेव निषिध्यत इति यदुकं तदुपपन्नम् । सिंड सिद्ध निषिध्यत इत्यत्रैवोपपच्यन्तरमाह--अपि चेति । यदि प्रतिषेधे विषयः प्रतिषेध्यैौ घठपठौ नापेक्ष्येते तते नास्ति’ इत्येवमविशेषेण निषेधः स्यात्; न ‘घठे पठो नास्ति ' इति । ततश्च सर्वत्र सर्वस्याविशेषेण निषेचात् सर्वशून्यता प्रमाणस्य विषयः स्यात् : न भेदः, नेदिडयामावा दिति भावः । नापेक्षितौ विषयनिषेध्यैौ येन स तथोकः । -दायत्तो ये. निषेधः स कीदृशो भवतीत्यपेक्षायामाह--यस्त्विति । ‘इदमतो भिन्नम् ’ इति हि भेदो गृह्यते ; स च तादृश भेदद्वयस्य प्रमाणतः सिद्धिमपेक्षत इत्यर्थः । ततः किमित्याह-न चेति । सा भेद्ययोः सिद्धिर्विधानात् तत्प्रमाणेन वस्तु खरूपग्रहणादृते न घटत इति व्यवच्छेदात् प्राग्विधान मेधितव्यमित्यर्थः । इतश्च प्राविधानमेषितव्यमित्याह --विधिपूर्वक इति ; सर्ववादिभिस्तथैवाङ्गीकरणादित्यर्थः । इतिईतौ, श्लोकार्थपरिसमाप्तीौ वा । डब्धरूपे प्रमाणतः मिडवरूपे कचित् भूतलादौ किंचित् घठदि ताडगेव प्रमाणतः सिद्ध स्वरूपमेव निचिध्यते यतःअतो निधानमन्तरेण निषेधस्य न संभव इति ऋकार्थः । अस्तु तर्हि विचिपूवों व्यवच्छेद इत्यत आह-- नापीति । कुत इत्यत आह--यत इति । एकमथक्षविज्ञानब्यापारभूतयोर्विधिव्यवच्छेदयोः
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४६३
दिखावट