पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

180 ब्रह्मसिद्धिव्याख्या पौर्वापर्यलक्षणः क्रमो युक्स्या न संगच्छते न युक्तिमान् ज्ञानस्य क्षणि कत्वादिति भावः । तच्च प्रत्यक्षु विज्ञानं संनिहितजं संनिहिते विषये जायते । तेन तदन्यामर्श न जायते; ततः संनिहितात् अन्यत् असं निहितं पराम्रष्टुं शीलं यस्य तत् तदन्यामर्श तथाभूतं न जायत इत्यर्थः । छोकं विवृणोति -- न खरित्रति । कुत इत्याह --क्षणिकत्वा दिति; ज्ञानस्येत्यध्याहार्यम् । कस्मात् पुनः क्षणिकस्य व्यापारयेः क्रमो न युज्यत । इत्यत आह -- क्रमवतोरिति ! यतः क्रमवतोर्यापरयोर्मध्ये यः पश्चातना व्यापारः स तस्य ज्ञानस्य व्यापार न स्यादित्यर्थः । कुत इत्याह --ठवधानादिति । पञ्चतनो व्यापारः पूर्वभाविना व्यापारेण व्यवहितो’ न क्षणिकस्य स्यात्, तस्य तदानीं नष्टत्वादिति भावः । इतश्च न वेधिपूर्वं । व्यवच्छेद इत्याह अपि चेति । अर्थपरिच्छेदरूपाया ब्ड़ेर्जन्मैव व्यापारो न काष्ठादीनामिव जन्मतिरेकेण व्यापारान्तरमस्ति । तदुक्तम् –“तेन जन्मैव विषये बुद्धेर्यापार इष्यते " इति । तथा “न हि तत्क्षणमप्यास्ते जायते व प्रमात्मकम्” इति च । अर्थावग्रहरूपाया इति विशेषणमन्तःकरणनिवृध्यर्थम् । ततः किमित्याह --सा चेदिति । सा बुढिरर्थविधानरूपोदया यदि तदा विधिरेवास्या बुद्धेर्यापारो न व्यवच्छेद इति कुतो व्यापारद्वयसंभवः, येन क्रमः स्यादिति भावः ? अर्थविधानरूप उदये जन्म यस्या इति विग्रहः । चेच्छब्दो ‘यदि वेदाः प्रमाणम्’ इतिवद्दष्टव्यः । ननु किमित्यर्थविधनरूषोदया सा भवति ? विचित्र्यवच्छेदः भयरूपोदयैव तावत् किं न स्यात् ? इत्याशङ्कयाह यौगपद्येति । नोभयरूपोदया सा, यौगपद्यस्यानन्तरमेव निषेधत् । अतो विधनरूपो दयैव सा बुद्धिरिति न ततो व्यवच्छेदः । तस्मान्न क्रम , द्वयोर्हि क्रमो भवतीति भावः ननु वै तर्हि बुदैः क्रमवती जन्मनी मविष्थतः ; तत्र विधानरूपम् , अपर व्यवच्छेदरूपमित्यस्ति क्रमसंभव इत्या क्याह--उत्पन्नाया इति । अमिश्च पक्षे बुढे जन्मद्वयेन विधिव्यव च्छेदयोरेकस्य विज्ञानस्य कर्मणोर्जन्मरूपयौवद्यापारयोर्वा क्रमः पौर्वा पर्य युक्त्या न संगच्छते, जातस्य पुनर्जन्मसंभवादिति लोकार्थं योज्यम् । लोकस्योत्तराधं व्याचष्टे --अपि चेति । ततः किमित्याह-न चेति;