पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एँ प्रत्यक्षमित्यनुवर्तते । किमित्यनवभासमानं व्यवच्छतुं प्रत्यक्षमशक्तामित्यत आह—अनवभासमाने हीति तत्र प्रत्यक्षे घटादौ व्यवच्छेदोऽनवभास भाने “ अत्र भूतले नारित घटादि ’ इति व्यवच्छेद्यविशेषराहितं व्यव• च्छेदमात्रं स्यात्, न तु घटादेर्यवच्छेद्याविशेषस्य कस्याचियवच्छेदः स्यात् ? दृश्यते चासौ । अथ व्यवच्छेदृ विना व्यवच्छेदानुपपथा व्यव च्छेयं कल्प्यते, तत्रोतृह्यमाणविशेषत्वात् मूतले सर्वस्य प्रतिषेधः स्यात् न चैतदस्तीत्यर्थः । उपसंहरति--तस्मादिति । ततः किमित्याह---न चेति । अयं च दोषः पूर्वादिष्टेषु चतुष्वपि पक्षेषु समानः । किमर्थं तर्हहोप न्यस्तः सर्वार्थ उक्तः सर्वैः समन्तस्यत इति । अत्र पुनश्लोदयति- कथमिति । यदि न निषेधपुरःसरो विधिरेकज्ञाने, यदि वा असंनिहित निषेध्यावभासः प्रत्यक्षे नास्तितदा ‘शुक्तिकेयम्’ इति बाधकं प्रत्यक्ष नोपपद्यत इत्यर्थः । कुत इत्याह--तत्रेति । तत्र बाधके प्रत्यक्षे पूर्व रजतार्घनिषेधपुरःसरोऽन्यस्याः शुक्तर्विचिरेकज्ञानेऽभ्युपगम्यते । न ह्यनिषिध्य रजतं शुक्तिविधिरवकल्पते । तथा असंनिहितस्य रजतस्य निषेध्यस्यावमासः आभ्युपेयते, तदनवभासे तन्निषेधानुपपत्तेः । तस्मात् न पूवों निषेधः , न चैकज्ञानव्यापरे क्रमःन चासंनिहितावभासः प्रत्यक्षे इति योऽय मनन्तरोक्तो नियमः स नास्ति, व्यभिचारात्; यतो बाधके प्रत्यक्षे त्रितय भप्येतदस्तीत्यर्थः । तदेतत् सिद्धान्ती दूषयति--नैतदिति । असारत्व माह--तत्रापीति । तत्रापि बाधकप्रत्यक्षे ‘रजतमिदम्’ इति पूर्वज्ञान विहिते रजतादौ प्रतिषेध्ये, तदीयेनैव इदम् ’ इत्यंशेनानिर्धारितविशेषं संनिहितार्थसामान्ये विषये विहिते निषेधो विधिपूर्वक एवेत्यर्थः । एत दुक्तं भवति--अत्रापि विषयप्रतिषेध्यविधिपूर्वक एव प्रतिषेध इति ‘न पूर्वो निषेधः ’ इत्यस्य तावन्न व्यभिचार इति । ननु ‘नेवं रजतम्_ शुक्तिरियम्’ इति निषेघपूर्व एव विधिरवगम्यते ; तत्कथमुच्यते जून निषेधपूर्वको विधिः' इतीत्याशङ्कयाह-शुक्तिवेति । विरोधिनो रजतस्य निषेधः पूर्वो यस्मादिति विग्रहः । तथा सत्यपि च नास्मदभिमतनियम नाश इत्याह--विधीति । ‘न पूर्वो निषेघः' इत्यनेन विषयनिषेध्य, विधिपूर्वता। निषेधस्य नियमेनोच्यते ; न च तंद्विषिपूर्वत्वाभावो निषेधस्य 9A