पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

18 बकसिद्धिव्याख्या नेवमिह नायमयमिति । ‘’ इति , ’ नेदमिहलेखयेिषः नायमयम् इति तादात्म्यनिषेघ इति भेदेनोपन्यासः । उभयत्राप्युदाहरणमाह--सिद्ध इति । प्रमाणान्तरसिद्ध भूतले तत्सिद्धो घटो निषिष्यत इति ‘नेदमिह' इत्यस्योदाहरणम् । गवि सिद्ध सिद्धोऽधो निषिध्यत इति “ नायमयम्’ इत्यस्योदाहरणम् । कुतः पुनः प्रतिषेधे विषयप्रतिषेध्ययोः प्रसिद्धिरपेक्ष्यत इत्यपेक्षायामाहनेति । न हि प्रतिषेधो नाम स्वतन्त्रः, किंतु कस्यापि - कुत्रचित् ; अतो यावत्प्रतिषेध्यप्रतिषेधविषयौ न ज्ञायेते तावत् प्रतिषेध एव न घटते यत इत्यर्थः । अत्र चोदयति--कथं तर्हति; यदि सिद्ध विषये सिई निषिध्यते, कथं ‘प्रधानं नास्ति’ ‘खपुष्पं नारित ’ इति च निषेध इत्यर्थः । कस्मात्पुनरत्र निषेधो नावकल्पत इत्यत आह- न हीति । देशविशेषे कालविशेषे हि सिद्धे सर्वे निषेधो दृष्टः ; न चेह तौ स्तः | तेन विषयस्तावदत्र सिहो नास्तीति भावः । कुत इत्याह--आत्यन्तिकत्वादिति ; यत्र कचित् सतोऽन्यत्र । निषेधः, तत्र देशकालविशेषविषयौ भवतः; अयं त्वात्यन्तिकः ‘सर्वत्र नास्ति’ इति निषेपःन पुनः ‘इह नास्ति' इति देशविशेषे कालविशेषे वा । अतस्तावदत्र विषयौ न संभवत इत्यर्थः । न केवलमत्र विषयो नास्ति, प्रतिषेध्योऽपि. सिद्धो नास्तीत्याह--नापीति । । नापि कुतश्चित् प्रमाणात प्रधानादेर्घटादिवत् काचित् सिद्धिरित्यर्थः । हेतुमाह--अत्यन्तासच्वादिति । स्वपुष्पस्य सर्वजनीनमत्यन्तासच्चम् । प्रधानं तु सांख्यानां सत्, न तु तैर्निषेध्यम् वाद्यन्तरस्य तु निषेध्यम् , तस्य च प्रतिषेध्यमसिद्धम् । अनेनैव च भेदेनोदाहरणद्वयमुक्तम् । तत्रैकयमतेन परिहारमाह--तत्रेति । यदाहुस्तदाह –वेति । प्रधानप्रतिषेधगतपरिहारापेक्षया तावच्छब्दः । प्रमाणान्तरसिद्धेषु खदिषु तद्विधाः प्रमाणान्तरसिद्धा एव पुष्पादयोऽत्र निषिध्यन्त इति नात्र प्रमाणान्तरसिद्धविषयप्रतिषेध्यासिद्धिरित्यर्थः । तथा • प्रधानं नास्ति ’ इत्यत्रापि न विषयप्रतिषेध्ययोरसिद्धिरित्याह-प्रधान मिति । जगतस्तावदुत्पत्तिमत्वात् कारणं सिद्धम् । प्रधानं च सवरज- तमोरूपम् सुवदुःखमोहास्मकं सांख्यैरिम्। कार्यकारणयोरभेदात् तर