5B इदानीमक्षरपदस्यार्थान्तरं वक्तुं तव्द्यवर्यं परमतं वक्तुमुपक्रमते--अन्य इति । ‘मृदादिदृष्टान्तदर्शनात्’ इत्येकदेशेन कृतेऽनुमानप्रयोगः सूचितः ; सोऽयंः प्रयोगः—ब्रल कार्यरूपेण परिणमते, प्रकृतिवत् मृदादीव घटादि- रूपेणेति; प्रकृतित्व च “यतो वा इमानि भूतानि’ इत्यादिश्रुतितिष्ठम् _ श्रुत वा मृदादिदृष्टान्तदर्शनादित्यर्थः । एवं परमतमुपन्यस्य तन्निराकरणा र्थत्वेनक्षरपदं योजयति--तदिति; तत् _ ब्रवणः परिणामित्वम्, अषाकार्यते निरस्यते ; अक्षरमित्यनेनेत्यर्थः । परस्तु पूर्वोक्तता|नुमानबलेन पृच्छति--कुत इति । सिद्धान्ती तु श्रुतिविरुद्धमनुमानमप्रमाणं मन्यमानः श्रुतिमाह भुव इति । अत्र परमतमाशयात - अथेति । परिणामित्वेऽप्यात्मनो नित्यता न व्याहन्यते मृद इव घटादौ, तत्वाविघातात् तत्स्वरूपत्वाविनाशात् ; अतो नेत्यता ,तिः परिणामित्वेऽप्युपपन्नत्वान्न परिणामित्वानुमानं बाधत इति भावः । एतदेवाभियुक्तवचनेन द्रढयति— यथोक्तमिति । यस्मिन् कार्यात्मना परिणतेऽपि तवं कार्येषु प्र यभिज्ञानात् कार्यरूपेण न व्यावर्यते तदपि नित्यम् ; न केवलं कूटस्थमेवेत्यर्थः । एवमशङ्कय दूषयति सत्यमिति । सत्यं परिणामिनि नित्यत्वमप्यस्ति, किं त्वामनि तन्न संभवति स हि सर्वात्मना परिणमेत्, एकदेशेन वा ; तत्र सर्वात्मना परिणतावात्म खरूपस्य विनाशादनित्यत्वं स्यात्, एकदेशपरिणतौ च सावयवत्वात्रि त्यत्वस्य व्याघातः स्यात्; यडि सावयवम्, तदवयवसंयोगजत्वत् कार्यं दृष्टम् ; यच्च कार्यम् , तदनित्यं दृष्टम् तथा चात्मनः सावयवत्वे अवयवानां मिथोऽवयविनश्च मेदादेकत्वमद्वयत्वं व्याहन्येतेत्यर्थः । एवं परिणामपक्षेऽनुपपत्तिमुक्त्वा विवर्तपत उपपत्तिमाह--तदेतदिति । तदेतत्व- रूपेण विशुद्धत्वं प्रपञ्चात्मना चाविडत्वम् , तथा प्रपद्यनाशेऽपि स्वतो नित्यत्वम् ,’ प्रपञ्चभेदेऽप्येकत्वं चाकाशकल्पे विशुद्धत्वानवयवत्वादिभि राकाशोपमे अविद्याकल्पितेन प्रपञ्चेन कल्पितावच्छेदे बक्षणि घठते ; नान्ययेत्यर्थः । कथं घटते ! इत्याह-कल्पितोति ।. यथा कल्पितावच्छे- दमप्याकाशं वस्तुवृत्तेनानवच्छिन्नमस्येव, अवच्छेदनाशादनित्यमपि कल्पनया तत्त्वतो नित्यम्, अवच्छेदभेदारकविपतभेदमपि वस्तुवृत्तेनैकम्, तदविशुद्ध
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३८९
दिखावट