पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

54 ब्रोसीडव्याख्या वशुद्धमपि तच्वतः शुद्धम्; तथा ब्रह्मापि ; न हि कल्पना वस्तु अन्य थाभावं नयतीति भावः । अथोच्यते-यदि काल्पितावच्छेदं ब्रह्म, ततः । कल्पितानामेवैकदेशानां परिणामोऽस्तु ; तथा सति च नित्यत्वमेकत्वं च न व्याहनिप्यते ; परिणामस्तु सेत्स्यतीत्याशङ्कच दूषयति--अथेति । कतिप- • तस्य असम्यमुद्याध्यवसेतस्य एकदेशस्य यः परिणामः, स कल्पनयैव असम्यग्बुध्यैव स्यात्; न चासम्यग्बुद्वयाध्यवसितस्य सत्यत्वम्; अतोऽ परिणामित्वमेव बक्षण इति सिद्धो नः पक्ष इति सूक्तम् ‘अक्षरम्’ इति । इदं चाक्षरपदस्य व्याख्यान्तरं न पूर्वत्रापरितोषेण, पूर्वत्र दूषणानभिधानात्; तस्मादावृख्यां वृच्यन्तरेण वा विषयव्याप्त्यर्थमिति मन्तव्यम् । इदानीमसर्वपदं व्याख्यातुं तब्द्यावर्य सत्यप्रपञ्चवादिमतं तावदुपन्यस्यति के चिदेति । के चित् “ सर्वगन्धः सर्वरसः सर्वकामः सर्वकर्मा” इत्यादिश्रुतेः सप्रपचास्मतां बक्षणेऽभ्युपगतवन्त इत्यर्थः । न केवलं श्रुतितःअर्थ- पतितोऽप्ययमर्थो लभ्यत इत्याह-एवमिति । सर्वात्मत्वे सति च विषया णामुपभोगः प्रकाशो घटत इत्यर्थः । कथमित्याह--प्रकाशेति । सवभकं बक्षणि प्रकाशTखभावस्य ब्रह्मत्मनः खभाव भूता विषयाः प्रकाशात्मकत्वात् युक्तं प्रकाशरान्नत्यर्थः । बझणोऽन्यत्वे तु प्रकाशासंसृष्टस्य खतो जडस्य च विषयस्य प्रकाशो नापकरूपेत । तदेवं विषयप्रकाशोऽसवीस्मत्वे ब्रह्मणोऽ नुपपद्यमानो ब्रह्मणः सर्वात्मत्वं गमयतीत्यभिप्रायेणाह--अन्यत्व इति । निष्प्रपञ्चब्रजभृतयश्च " अस्थूलम्" इत्याद्याः निष्प्रपञ्चमिति ह सप्रपञ्च ब्रलोपास्यम् इत्येवंपराः, न तु प्रपञ्चत्मत्वप्रत्याख्यानपरा इति भावः । अत्र सिद्धान्तमाह-तानिति । न सर्वात्मकं ब्रह्म, किं तु निष्केव- लमद्वयमिति यावत् । परस्तु तेनैव भृत्यर्थापच्यवष्टम्भेन पृच्छति-कुत इति । उत्तरमाह-अस्थूलमिति । उपरगस्तादात्म्यम् । नेयमुपासनापरा श्रुतिः, उपास्तेरमृतत्वात् अप्रकृतत्वादध्याहारप्रमाणाभावात् उपनिषदां तु सिढेऽर्थे प्रामाण्यात्; अतोऽस्थूलादिश्रुतेर्न सर्वात्मकं ब्रन । ननु सर्वगन्यादिश्रुतिरप्यस्तितस्यास्तर्हि का गतिः ? उच्यते--सर्वगन्धादिवि-

करपास्पदवान् ‘सर्वगन्धः’ इत्याद्युक्तमिस्यविरोधः । विषयोपभोगोपपत्तिर्भ