द्रक्षकाण्डः 66 विवर्तपक्षेऽप्युक्तेति न पुनरुक्त । एवं प्रमाणाभावेन विपर्ययप्रमाणेन च प्रपद्यस्वभावत्वं ब्रह्मणः प्रतिषिध्य, इदानीं तदभ्युपगमे दोषमाह--सर्वेति। सर्वगन्धादिविशेषेरवियोगादात्मन . इत्यर्थः । कुत इत्याह--न हीति । ननु स्वभावादापि किंचिद्वियोज्यते ’ कथमिव ? घठ इव पाकेनेत्याशङ्कचाह --अथापीति । वियोगोऽपि भवन् कतिपयैरेव प्रपदैः स्यात, न सर्वैस्त्रैलोक्यवतीमिः ; प्रपद्यप्रबन्धस्य कुम्नस्य प्रपञ्चस्यानुच्छेदात्; अतश्च नित्यसंसारिता स्यादित्यर्थः । ननु प्रलये सर्वच्छेदो दृष्टः; नैवम् , आत्यन्तिकलयाभिप्रायत्वादस्य ; स हि मुक्त्युपयोगी; नेतरः, पुनः सृष्टेः। प्रपञ्चप्राबल्यस्यानुच्छेद प्रकटयति--सर्वथेति । खभावस्यावियोगे वियोगे च, बुभुक्षादिप्रपञ्चोऽस्यात्मन आत्मा स्वभावरत्वत्पक्षे ; न च बुभुक्षादि प्रबन्धस्य सर्वजन्तुगतस्य बुभुक्षादेरुच्छेदः केनचिदिष्यते, एकमुक्तौ सर्वमुक्ति प्रसङ्गादित्यर्थः । बुभुक्षादेराध्यात्मिकस्य पुरुषविछावकस्यं प्रत्यासन्नमतिः शयितं बन्धहेतुत्वमिति विशेषतः परिग्रहः । तत्र सर्वात्मकैकारमवादिनस्तव मोक्षो न स्यादित्याह-तत्रेति । एतेन कल्पितभेदस्य जीवस्यापि ब्रह्म प्राप्तस्य मुक्तिः प्रत्युक्ता । क़स्य नाम निमॉक्षः स्यादित्यत आह--आत्मेति । आत्मवादिनस्तु कस्यचिदात्मनो बुभुक्षादिप्रपञ्चोच्छेदान्मुक्तसंसारस्य विमागः स्यात्; न त्वस्य सर्वस्मत्वमिष्टमित्यर्थः । प्रकृतमुपसंहरति तस्मादिति । यदि न ब्रह्मस्वभावभूतः प्रपञ्चः , कीदृशस्तदंत्यत आह- अविद्यति । अयमाशयः--तच्वतः प्रपद्यात्मत्वे ब्रह्मणः प्रपञ्चस्य बहुदोष- दुष्टवान् तदोषकल्पितत्वादमेध्यादीनां दुर्गन्धादिप्रपथेन नित्यदुःरिवत्वं दुनिवार ; स्यात्अकलुषमानन्दैकरसं च तच्छूयते, सध्याहन्येत । विकार दोषास्ते न प्रकृतिं स्पृशन्तीति चेत्, तत्किममेध्यादिदुष्ट घटे मृदमदुष्टां मन्यसे ? येनैवम् । अथ भिन्नाभिन्नत्वात् प्रपञ्चस्य भेदाभेदेन न तद्दोषलेप इति चत्, न, भेदाभेदन तदापत्तदुष्टमदुष्टं च ब्रह्म स्यात् ; अत्यन्ताविशुद्धं च तच्छुतम् । अविद्याक्रीडिते तु प्रपञ्च नैष दोषःन वल्वविद्याीडितेन दोषेण तच्चमुपलिप्यते गगनमिव मलिनतादिना । तस्मादत्यन्ताविशुद्धे बच्छता अविद्यापक्ष एवोपास्य इति । A S
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३९१
दिखावट