46 ब्रह्मसाडव्याख्या घटमहं जाने’ इति ज्ञ|नावभासात् । न च तदवभासोऽन्यतोऽवकरुपत इत्युक्तम् । न च बुद्धिवृत्तमेव स्वतेऽवभाति, जडत्वात् । न च बुद्धि वृत्तस्य स्वतो जडस्य घटादिवदर्थप्रकाश्वम् । इन्द्रियं तु प्रकाशकम्, न प्रकाश इति विशेषः । अस्ति च नित्यज्ञाने ज्ञानशब्दो वेदे; यथा “सत्यं ज्ञानमनन्तम्” इति । न हि बुद्धिवृत्तस्य क्षणिकस्यानन्त्यमवकरुपते; योग्यतालक्षणो वा दृशो दृश्येन संबन्धो नान्यः ~ असङ्ग खयं पुरुषः इति श्रुतेः । दर्शनयोग्यता चार्थस्य बुध्द्युपारूढयैवेति नान्यत्रोपलब्धिप्रसङ्गः। तस्मात् खप्रकाशमेव ज्ञानं मुख्यम्; नान्यत् । बुद्धियुतं तु श्रान्तममुल्प मिति सिद्धम् । तदेतत् स्वमतेऽप्युपयुज्यत इति सांख्यमतप्रस्तावेनोक्तमि- युपरम्यते एवं परमतेन व्यवस्थामुक्त्वा अधुना स्वमतेनाह--अपि चेति । भेद- दर्शनमविद्या; तस्याम् ‘अमैवेदं सर्वम्’ इत्यभेददर्शनेन विद्यया निर्वार्ति तायामास्ममात्रावशेषे जगति दृश्यमेव नास्ति, कुतो मुक्तस्य सर्वदर्शित्वः मित्यर्थः । बद्धस्य तु ' एषोऽणुरात्मा चेतसा वेदितव्यः ” इत्यादिश्रुतेः रणुबुद्द्यवच्छिन्नत्वेनार्णवान्नियताथोपनेत्रविद्योपनीतार्थमात्रद्रष्ट्टत्वाच्च सर्वगत पक्षोक्तसर्वदर्शिस्वदोषो दूरत एवेति भावः । अत्रैव दृष्टान्तद्वयमाह-दग्धुः रिवेति । तमेवार्थं श्रुतिद्वयेन द्रढयति- तदुक्तमिति । द्रधुरात्मनो दर्प ताया इति व्यधिकरणे षष्ठयौ । एवं वपक्षमुपपाद्य परपक्षे दोषमाह- विज्ञान इति । इत्याह-न ; बुद्धयादिगुणरहितस्य नित्यम- कुत -हीति नवबुध्यमानस्य न सर्वमसर्वाद्विशिष्यत इत्यर्थः । न चात्माभाव एव पुरुषार्यःपुरुपैरनर्यमानत्वादित्याह -कश्चेति ॥ मतान्तरमाशङ्कय दूषयति- स्यादिति । उद्वहन्त इत्यत्र खोच्छेदाय यतमाना दृश्यन्त इति पूर्वेणान्वयः । संसारिणस्तु नैवंविधाः, येन खोच्छे दाय यतेरन्नित्याह : न त्विति । अनेवंविधत्वद्योतनार्थं विविधेत्यादिविशे षमम् । ततः किमित्याह--तत्रेति । स्वपक्षे तु मोक्षस्यानिष्टनिवृत्तीष्ट- प्राप्तिभ्यानैकान्तिकं पुरुषार्थत्वमाह--यस्य त्विति ।
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३८२
दिखावट