30 ब्रह्मसिद्धिर्याख्या केन निवत्येत? न केनापीत्यर्थः । विद्याया अविरु इत्वेनानिवर्तकत्वादन्यस्य च तन्निवर्तकस्यादृष्टत्वादिति भावः ।। अत्र सिद्धान्तमाह--अत्रोच्यत इति । 'न खभावो नार्थान्तरम्’ इति खभावाखभावपक्षक्तदोषावनभ्युपगमेनैव परिहरति । यदि ब्रह्मणो न खभावःनाप्यर्थान्तरमविद्या, नस्येव तद्दत्यत्राह-नेति । यदि न बक्षणो - मित्रा, अभिन्ना वा, न सती, नाप्यसती, कीदृशी न|म सा ? इत्यत आह एवमिति ; ईदृश्येव सा, अनवस्थितैकरूपेत्यर्थः । न चेयमलौकिकीत्याह अविद्येति ; लोक इति वाक्यशेषः । एवमादिभिः शब्दैरसौ रूढा, न सदसदादिशब्दैरिति दर्शयितु विशिष्टपर्यायनिर्देशः । तत्र सर्वाभावे तावत् प्रमाणमाह-स्वभावश्चेदिति ; तस्याः सर्वाभावे तावदविद्यात्वा २५थानुपपत्तिरेव प्रमाणमिति भावः । तथा ब्रसस्वभावत्वे सत्यत्वात् ब्रह्मवं- द्वधानुपपत्तिरपि तत्र प्रमाणम्ढ़म् । अर्थान्तरत्वाभावस्तुल्यदोषत्वात् स्वमा वान्यस्वपक्षतुल्यत्वाद्वा न स पृथगुक इति । अत्यन्तासच्वाभावे तु व्यवहार राङ्गत्वानुपपत्तिः प्रमाणम् ; न श्वसतो व्यवहाराङ्गस्वं दृष्टमित्याभिप्रायेणाह • अत्यन्तेति । उपलक्षणं चेदम् ; उपलभोऽप्यसतः खपुष्पवनोपपद्यतेति सोऽपि प्रमाणम् । ननु व्यवहारातं चेत् ततोऽर्थक्रियाकारित्वात् सच्चस्य क्यं न सती ? मैवम् , देहात्मभावस्याशेषव्यवहाराङ्गस्याप्यसच्वात् । तज्ज्ञानं तत्र सदेव व्यवहाराङ्गमिति चेत्, तदपि न ; यतो न ज्ञानमात्रं व्यवहा- राङ्गम् । नन्वविद्या प्रमाणेन चेत् प्रतीयते, ततो बलवत् सती ; नो चेत् , खपुष्पवदसती ; कथमनिर्वचनीया ! मैवम्; अवभाति हि सा ; न तु प्रमाणेन , शुक्तिरूष्यवत् ; अत एव खपुष्पाद्विशिष्यते । न च सदसती, बिरोधात् ; अतो बलादापन्नमानिर्वचनीयं सदसच्चाभ्यां राथन्तरम् । ननु न तदन्यत् किंचिद्दष्टम् । मा नाम दृश्यत।म् , तथाप्युक्तप्रमाणबलात् सिडम- निर्वचनीयत्वमविद्याया नापलपनीयम् : न हि भुवो गन्धववमन्यत्रादृष्टमिति तत्र दृष्टमप्यपलप्यते । नन्वनिर्वचनीयेति निरुच्यते, कथमनिर्वचनीया ? मैवम् , सदसच्चाम्यामिति विशेषितत्वात् । नन्वविद्या चेदुपेयते, अवश्यं अशणो भिन्ना अभिन्ना वा स्यात् , राश्यंन्तरासंभवात् । मैवम् , शुक्तिरूप्यं
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३६५
दिखावट