ब्रह्मकाण्ड B1 वावेत्युक्तोत्तरत्वात् ; शुक्तिरूप्यं हि न शुकेर्भिन्नमभिन्नं भिन्नामिनं वा घटते ; तस्मादस्ति प्रकारान्तरसंक्षव इति } सर्वमूरीकृस्येपसंहरति--तस्मादिति । इयं चेदृशी सवैरेव वादिभिरभ्युपेया ; तेन न वयमेवोपालभ्या इति युक्तिबलेन सर्वानभ्युपगमयति---सर्वेति । एतदेव प्रपञ्चयति--तथा हीति । सर्वशून्यः बादिनां माध्यमिकानां दृशं जगद्दश्यते तादृशं चेत् सत् , ततः परमार्थ. वान्नाविद्य; अथात्यन्तमसत् , ततः खपुष्पवत व्यवहारपुं न स्यात्; नवभासेत । तथा ज्ञानमात्रवादिनो यांगाचारस्य बाह्याथवभासानपदवात्तथा सत्वे नाथपह्नवः स्यात्; अत्यन्तसवं वपुष्पवद्व्यवहाराङ्गत्वम् । बाह्यार्थे वादिनोऽपि पतञ्जलेः “ अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मबुद्धि- रविद्या " इतीयं नित्यादिबुद्धिर्मिथ्येष्टा ; सा प्रतिभासमाननित्यत्वाद्यर्थस्य सत्यत्वे न मिथ्या स्यात्; असत्यत्वे न तन्निवन्धनो व्यवहारः स्यात्; अतः सर्वेरनिर्वचनीयैवाविद्याभ्युपेतव्येत्यर्थः । ननु शुक्तिरजतादिविभ्रमे रजत मसत्, न तु तज्ज्ञानम् ; तच्चाविद्या; अतः सस्येव सा; कथमनिर्वचनी- यता? इति चोदयति - स्यादेतदिति सिद्धन्ती त्वाह--नैतदिति । असत्यच- भासमानेऽर्थे तदवभासोऽपि सत्यवेन दुर्निरूपः; किं त्ववभासमात्रं सत्यं स्यात्; तदवभास इत्यपि भ्रान्तिरेव ; तस्यैवाभावात्; न केवलमर्थः, अपि वर्धमासोऽपीत्यर्थः । एतदुक्तं स्यात्--अथानुबन्धरहितमनुभवमात्रं नो नित्यं सदेव; तस्य च भ्रान्तेिनाथनुबन्धनावद्यत्वम्, न खतः; असत्यथोनुबन्धरूपेण न सतीति स्वतः सत्यपि ‘न सती’ इत्युच्यत इति। एवमनिर्वचनीयत्वमाक्षिप्तं समा घाय पुनरुपसंहरति- तस्मादिति। तदेव द्रढयति-अत इति । कुत इत्याह स्वभावाहानादिति । यद्यविद्या सत्वभाव स्यात्, न खभावं जह्यादग्नि- रिवौष्ण्यम् । न च तथाभूतस्यान्यथाभावः; अन्यथाभूतस्य चान्यथाभावेऽ- नवस्था स्यात्; अतां न वाधकज्ञानेनान्यथाक्रियेत । अथासती, ततः खत एव निवृत्तत्वान्न तेन निवर्यंतेत्यर्थः। एवमनिर्वचनीयत्वमविद्यायाः प्रतिष्ठाप्य संवे हेतापत्तिः, असवे ब्रह्मस्वभावत्वे च निवर्तनीयाभावः' इति परोक्तं दोषद्वयं पारिहरति-एवमिति । इदानीं कस्याविद्येति यदुक्तं तदनुभाष्य तत्रोत्तरमाह-यस्विति । अत्र
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३६४
दिखावट