23 बकाण्ड भेद बत् तद्वति जगति वर्तते । तत्र पटशब्दसामानाधिंकरण्यात् ‘ शुकः पटः इतिवद्वर्तत इति चेत् , अत्रापि ‘किंचन’ इत्यनिर्धारितविशेषजगत्सामाना- धिकरण्यमविशिष्टम् । तस्मान्नानाभूतजगदेव निषिध्यते, न नानात्वमिति सिद्धम् । न च ‘एकरिमन्नायतने एक एवाद्वितीयो भोक्ता, न नाना’ इत्यय मस्यार्थः करप्यः, अभृतकल्पनाप्रसङ्गादिति । तत्रैव भृस्यन्तरविरोध माह-नानारत्रेति । एकत्वे उपचारिते नानारत्वं परमार्थं । स्यात्; न च तस्य निन्दा युक्तेति भावः । तत्रैव पुनः श्रुत्यन्तरविरोधमाह-भेदेति । दर्शनादन्यस्मिन् तदाभासे इव शब्दो घटते, न तु तत्रैवेत्यर्थः न च भेददृष्टिरिव ” इति ‘‘अण्व्य इवेमा घनाः ” इतिवदवधारणार्थ इवकारःनासवद्यतनाथे इति वाच्यम् भ्रमादित्यनुपपत्तेः । अत एव च भेददृष्टेश्चन्तित्वे स्थिते भेदस्य मिथ्यात्वात् ‘नाना' इत्ययमपीवकारो मिथ्या त्वद्योतनार्थो नावधारणार्थं इति सिद्धम्, अन्यथा तद्विरुद्धार्थः स्यात् ; “ नेह नाना ’” इति च नानाभूतस्य निषिद्धत्वात् कारणं विना प्रसिद्ध तरार्थत्यागायोगच । तत्र तु स्त्रीलिङ्गनिर्देशात् कारणान्तरादतिक्रम इति । विशेषः । नानात्वनिवृत्तिश्रुतेनैकत्वोपचार इति पूर्वमुक्तम् अधुना एकत्व- मुपचरितमभ्युपगम्य तदा नानात्वनिवृत्तिश्रुतिर्न घटत इत्याह--काभमिति। भाविकस्येति ; तात्विकस्येत्यर्थः ' ननु नानात्वानिवृत्तिरपि सत्तादिरूपा मेदेऽनानावादुपचाराद्भविष्यतीत्याशङ्कय दूषयति---सापीति । ननु मासु प्रयोजनम्; तदुपचारनिमित्तं सत्तादिजात्यभेदो भवतु; किं प्रयोजनेनेत्या- शङ्कयाह- -सतीत । निमित्तवदुपचरे प्रयोजनमपेक्ष्यम् । न हि स्तुतिं प्रयोजनमनपेक्ष्य तेजस्वितानिमित्तमात्रभावादादित्यशब्दो यूप उपचर्यते । न हि श्रुतिः सतो नानात्वस्याभावं निष्प्रयोजनमेव दर्शयतीति भावः । ततः किमित्याह-न चेति । न केवलं स निष्प्रयोजनः, किं तु प्रयोजन विरोधी यावदित्याह-विपर्ययाश्चेति । यत् प्रयोजनं यथा बोपचार- स्तद्विरोधी, तदाह--अभ्युदयेति । सा नानात्वनिवृत्तिः स्वर्गः साध्यः यागः साधनम् , प्रयाजादीनीतिकर्तव्यतेति च विभागं निवर्तयन्ती तेन विनानुष्ठानाभावादभ्युदयविरोधिनी; सर्वत्र विषयेषु ‘आत्मैवेदम्’ इत्य भिमानमाविर्भावयन्ती निःश्रेयसविरोधिनी स्यादित्यर्थः । तयोर्विरोधिनीति
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३५६
दिखावट