पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

22 वसिद्धिव्याख्या दुःखति भोगव्यवस्था, कश्चिन्मुक्तः कश्चित् संसारीति च विभाग आमनां मेदे घठते ; अन्यथैकस्मिन् सुखिनि मुक्ते च सर्वे सुखिनो मुक्ताश्च स्युरि- त्यात्मनां भेदे युक्तिः । इयं विना चात्मनों दृकूछक्तिरफळ स्यात् । आत्मानं तया द्रक्ष्यतीति चेत् , तत्राह--खात्मनीति । स्वव्यापारव्याप्यतया खस्य कर्मत्वं विरुध्यत इत्यर्थः । किं च दर्शनव्याप्यं हि दृश्यम् ; दर्शनं च कार्यत्वात् समवायिकारणं द्रष्टारमनुमापयतीत्येवं दृश्येन द्रष्टुरनुमानम्_ अतोऽस्ति द्रष्टरम्यद्दश्यमिति आरमदृश्ययोरेंदे युक्तिः । दृश्यस्येत्यादि दृश्यानां मिथो भेदे युक्तिरिति विवेक्त त्र्यम् । सुखादिभेदवच्वं च शब्दादे स्त्रिगुणजत्वात्; एवं च सुखादिलक्षणोऽपि दृश्यभेदः कटाक्षित इतेि द्रष्टव्यम् । यथा विरुद्धानां सुस्वादीनां भेदोपलब्धिः, एवं विरुद्धानामपि शब्दादीनामित्यर्थः । तदवं भेदे सति * एक एवायमद्वितीयः" इत्या मैकत्वश्रुतिमात्मत्वजातेरभेदाद्देशकालानंदाच, जगदेकश्रुतिमपि सत्तारूपे- गैकत्वते गौणीम्, आत्मैवेदम् ” इति च तादर्यात् तच्छब्दं ये मन्यन्ते तान् प्रयुच्यते –एकमिति । अत्र श्रुतिमाह—इन्द्र इति । भीयतेऽनयेति माया बुद्धिः; अतश्चेन्द्रियबुद्धचास्मा द्विपदादिरूपः प्रतीयत इत्यर्थः; अतः कथं नानात्वस्य मिथ्यात्वमिति चेत्; न, यौगिकत्वात्; यौगिको हि मायाशब्दो बुडौरूढश्र मिथ्याभावे ; रूढिश्च योगाद्वीयसीति न्यायः; तस्मादूढिरेव ग्राण । यद्यपि बुडिनामसु क्वचित्पाठोऽस्ति, तथापीह न सा प्राधा; यदि प्रतीयते तद् बुद्धचैव ; अतो मायेति विशेषणं व्यर्थ स्यात् । न च सर्वत्र वेदे बुद्धिवाची मायाशब्दःमायां तु प्रकृतिं विडि+ इति व्यभिचारादिति । ततः किमित्याह--तत्रेति । नानात्वं सत्येकत्वमुपचारितम् असत्वे तु तस्मिन् भृत्योक्तमेकत्वमेव सत्यमापद्यते, नोपचरितमित्यर्थः । एकत्वोपचारे श्रुत्यन्तरार्विरोधमाह--तथेति i * नोप- चरित एकत्वेऽवकरुपंत ’ इति वक्ष्यमाणेन सर्वत्र सबन्धः । पूर्वं माया भिधानेनार्थानां नानात्वं निषिद्धम् , इह तु साक्षादिति व्यक्तत्वाभिधानम् । अत्राहुः- आकृतेः “ पदार्थत्वान्नानाशब्दो नानात्वमाह; ततश्च ‘अस• देवेदम्” इत्यतः प्रकृते जगत्कारणे नानात्वं निषिध्यते, न तु नानाभूतं जगदिति । अत्र ब्रूमः-नानात्ववाच्यपे नानाशब्दो ‘घटाआना पटः' इति-