पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रकाण्डः 21 बमस्त्वनुभवः ; ‘सुरवानुभवः ' इति विशेषः । कुतः ? दुःखानुभव एव किं न स्यादित्यत आह-न चेति । ‘स्यात्' इति पूर्वेणान्वयः। सुखपराम द्विशिष्टानुभवसिद्धिरिति भावः । नन्वस्तु सुखानुभवः, तथापि कथमात्मनः सुखस्वभावत्वम् ? पृथगेव सुवमनुभूयत इति किं न स्यात् ? इत्यत आह न चेति । तत्र सुषुप्ते सर्वकरणोपरमादात्मनोऽन्यन्नानुभूयते ; अतः स एव सुखस्वभावः खतो भासत इति तस्य सुखमत्वसिद्धिरिति । इममर्थं प्रत्या द्रढयति-तथा चेति ‘‘एवमेवेमाः सवः प्रजा अहरह गच्छन्त, य एतं ब्रह्मलोकं न विन्दति “ इति श्रुतिः । तदिदमन्ये नानु मन्यन्ते ; यतः परामशोन्यथानुषपच्यानुभवः करप्यः ; स च दुःखाभाव निमित्तऽप्युपपद्यत इति ; तदाह--तत्रेति । तत्र परामशलेङ्गकसुखानुभव वादिन एवमाहुः--आत्मनः सुखात्मत्वादन्यथात्वे असुरवात्मत्वे प्रमाणन्त- रादवगते दुःखाभावनिमित्तः सुखशब्दो गौणः कल्प्यते, अन्यथा असुखात्मत्वे वनवगते मुख्य एव युक्त इति ; तदाह -तानिति । तदेतद्दषयति--तत्रेति । जीवस्यैव iहे प्रतिबुद्दस्य परमशोदनुभवः कल्प्यो नान्यस्य । न च तस्य तदानीमुपसंहृताखिलोपघेः संस्कारमात्रशेषस्याविद्याच्छादितात्मनः सुषुप्त सुखपलम्भः संभवति । तस्मात् ‘सुखम्’ इति परामर्शमात्रमिदम् । तच्च सुखे झुडुःखादिनिवृत्तौ दुःखोपरमे चोभयत्रापि दृश्यते ; उपपद्यते च सुखाविनाभावेन दुःखोपरमोऽपि । ततश्च न ततः सुखानुभवरूपस्यार्थस्य प्रसिद्धिः । तदाह--तत्रेति । अथवा ‘ सुखमहमवाप्सम्, न मया किंचि चेतितम्' इति चोभयथा व्यपदेशात् स्वापे सर्वथा अज्ञानम्; सुखपराम स्तु दुःखोपरमनिमित्त इत्येवं व्यपदेशद्वयस्योपपत्तेश्च न व्यपदेशमात्रात् सुखानुमवसिद्धिरित्यर्थः । ननु दुःखोपरमोऽपि सापे न ज्ञातः ; सत्यम् ; प्रतिबुद्धस्तु सुखमनुसंधाय दुइवोपरममवगच्छति । ननु दुःश्वाननुभवोऽपि तदा न ज्ञातः कथमनुसंधीयते ? यदि दुःखमन्वभवत्, ततो दुःखमस्मरि ष्यत्; न चैवम् ; अतो न दु खमन्वभवम् ’ इत्येवं दुःखानुद्भवान्नावमनु संधत इयदोषः । इदानीमेकपदं व्याख्यातुं तब्द्यावर्यमात्मनामारमदृश्ययोर्वंश्यानां चान्य न्यभेदं परफिमतं तावदुपन्यस्यति--अत्रेति । कश्चित् सुख कश्चित्