सामग्री पर जाएँ

पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बलकण्डः 17 धर्मोऽभ्युपगन्तव्य इत्याह--तस्मादिति । ततः किमित्याह--तथा चेति । आत्यन्तिकभेदाभावपरत्वं च श्रुतेरेकाद्वितयैवशब्दैः पुनः पुनरभिधानात् द्रष्टव्यम् । ननु चानन्दविज्ञानयोर्न धर्मर्घर्मभावःकिं त्वेकमेव ब्रह्म विज्ञानानन्दरूपद्वयात्मकम् ; अतो नाद्वैतश्रुतिबाघ इत्याशङ्क्याह--एवमिति । योऽप्येकस्य बक्षणो विज्ञान नन्दरूपद्वयं प्रतिजानीते, तस्यापि रूपद्वयस्य मिथो रूपिणश्च सकाशातेदाभेदाभ्युपगमादात्यन्तिकभेदाभावधृतिर्न युज्यत इति पूर्वेण संबन्धः । एवं सुखवाचिन्यानन्दशब्दे दोषमुक्तमुपजीव्य परः वपक्षे प्रतिष्ठापयति--तस्मादिति । विज्ञानामनइति । विज्ञानैकरूपत्वान्न विज्ञानानन्द ख्यरूपद्वयभेदकृतो हैतप्रसङ्ग दोषोऽस्तीत्युक्तम् । दुःखा भावोपाधिरिति चाभावस्यावस्तुत्वात् मावरूपानन्दपक्ष इव न धर्मधर्मिभेद कृतोऽपि स दोषोऽस्तीत्युक्तमिति मन्तव्यम् । ननु न विज्ञानानन्दयो- र्धर्मधर्मित्वम् , नाप्येकमनेकारमकं वस्तु किं त्वेकमेवेदं तच्वं विज्ञानानन्द शब्दद्वयेनोच्यते; अतो न दैतप्रसङ्ग इति सिद्धान्तिमतमाशङ्कयाह- न चेति । कुत इत्याह-शब्देति । एकार्थत्वे हि पर्यायत्वं स्यात् ; न च पर्यायाणां सह प्रयोगो दृष्टो युक्तश्चेति भावः । किं च लोके विज्ञानानन्दशब्दयोरपर्यायत्वं प्रसिद्धम् ; न च तद्वाच्ययोरेकत्वं घटपटयो रिव युक्तमित्याह –कथं चेति । तदेवं विज्ञानानन्दयोरभेदो न घटते; भेदे च तयोरद्वैतबाधेति स्थिते परः खपक्षमुपसंहरति-तस्मादिति । अन्यत्रास्तु नामानन्दशब्दस्य सुरववाचित्वम् , , ब्रह्मण तूक्तयानुपपच्या दुःखाभाव एव लक्ष्यः ; अत एव “ ब्रह्मण’ इत्युक्तम् । अत्र सिद्धान्तमाह-अत्रेति । विशिष्टस्य त्रैलोक्यविलक्षणस्य हादा मकस्य सुवस्वरूपस्य, न तु तद्धर्मिणः, चन्द्रप्रकाशोपमस्य प्रकाश विशेषस्य विज्ञानानन्दशब्दद्वयेन प्रतिपादनान्नाद्वैतश्रुतिबाधदोष इत्यर्थः । एतदुक्तं भवति--विज्ञानमेवानन्दम्, न तद्धर्मः; नाप्येकं द्विरूपम् ; अतो नाद्वैतबाधेति । यत्तुक्तमपर्यायशब्दानामेकार्थत्वं न दृष्टमिति तद्वचभिचार यितुं दृष्टान्तमाह - यथेतेि । अपर्यायवमभिधेयभेदात्, अभेदार्थत्वं च लक्ष्यमाणस्यैकत्वादित्यविरोधः । कोऽसावित्याह-प्रकाश इति । ननु यदीमावपर्यायौ, ततो भिन्नाथौं; अतो । नीलोत्पलादिवद्विशेषणविशेष्यत्वं