पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

16 बसिडिव्याख्या गुणिनि वर्तन्ताम् आनन्दादयस्तु निष्कुष्टगुणस्थाः, ते न गुणिनि दृत्ति मर्हन्ति ; न हि भवति ‘चन्दनं गन्धः ' इति; तदुक्तम् - न कदा विप्रयोगोऽस्ति चन्दनं गन्ध इत्ययम्" इति । न च गुणिन्यवृत्तस्य गुणशब्दस्य गुणिसामानाधिकरण्यमवकल्पते । यथा चास्मत्पक्षे तद्भवति तथा वक्ष्याम इत्युपरम्यते । ननु स्वप्रकाशलेदारमा, सुषुप्तः किं न प्रका- शते ? कस्य प्रकाशताम् ? यदि स्वस्य, तदिष्टमेव नः ; खस्य स्वयमारमा नित्यं प्रकाशत एव ; न हि द्रष्टुडेंटेर्विपरिलेपो विद्यते “ इति श्रुतिः । अथ जीवानाम् , न; ते ह्यविद्याकार्यबुद्धयाद्यपाधिकल्पितभेदाः स्वापे । संहृताखिलकार्यायां तवमाच्छाद्य बीजमात्रतया स्थितायामविद्यायां संस्कार मात्रशेषः कथमुपलभन्ताम् ? अतोऽयमदोषः । ननु खप्रकाशत्वे नित्य- दृष्टेब्रेक्षणो दर्शनप्रतिषेधो नावकल्प इत्याशङ्कयाह-केनेति । ‘कम्' इति इशिकर्मणो दृश्यजातस्यायमक्षेपः, न दृशेरेवेत्यर्थः । एतदव श्रुतिपौर्वा- पर्येण द्रढयति--तथा हीति । दृशकर्मणो दृश्यजातस्थ विलयनिमित्तक एव प्रतिषेध उच्यत इत्यर्थः । यदा अस्य विदुषः सर्वे दृश्यजातमा मैवत नात्मव्यतिरिक्तमस्ति तदा कं पश्येत ? न कमपीति वाक्यार्थः ; ‘ननु पश्येत’ इति तेन दृश्यदृष्टिरत्र निषिध्यते, नामदृष्टिरित्यर्थः । तत्र केचित् आनन्दशब्दस्य ब्रह्मणि दुःखाभावपरत्वप्रतिपादनाय सुख वाचिवं निषद्धे पुनः प्रत्यवतिष्ठन्ते –अन्य इति । धर्मान् विभजति- भावेति । तत्राभावरूपाणामदुष्टत्वमाह--तत्रेति । तानुदाहरति--यथेति । हेतुमाह--न हीति । निर्चत्तिरवस्तुत्वात् न दैतमापादयति, अतो नाहैतं हन्तीत्यर्थः । ‘एकम’ इत्यात्मनामनात्मनां चार्थानां भेदस्य नानात्वस्य निवृत्तिः, अजम्_’ इत्युदयस्य जन्मनः, ‘अमृतम्’ इति व्ययस्य विनाश स्येति विवेक्तव्यम् । आनन्दस्तु यदि भावरूपोऽभ्युपगम्यते, “ ततोऽर्द्धत विघातः स्यादित्याह-आनन्द चेति ! ननु धर्मधर्मिणोभेदादवैतविघातः स्यात् ; स एव तत्र नास्ति, तयोर्भदे गवाश्ववत् धर्मधभित्वायोगात् ; अतो नाहैताविघातः स्यादिति चोदयति - स्यादेतदिति । तद् दूषयात--तदिति । धर्मधर्मिणोरस्यन्ताभेदेऽपि घर्मण इव खापेक्षया धर्मषभित्वानुपपत्तेरित्यर्थः । यस्मादात्यन्तिकभेदाभेदाभ्यां व्यावृत्तो धर्मधर्मिभावः तस्मात् कथंचिद्भिन्नो