सामग्री पर जाएँ

पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
नियोगकाण्डः ३

सामान्यरूपभूयस्त्वं तस्मात्तत्वं प्रकाशते ।
विलक्षणत्वमल्पत्वे चकास्ति तदनुद्भवात् ॥ ६१ ॥
यस्मात् सत्यापि समान्थयोगे मणिशरावयोः ।
प्रमाणं कार्यविज्ञेयमसंयोज्यास्ति धीयेतः ५ ६७ ॥
प्रथमं जायते तस्मान्न दण्ड्यादिसमनन!।
सम्बन्धमात्रावसितमपि चान्ये विपश्चितः ॥ ६८ ॥
आहुर्वचोऽक्रियमयं राज्ञो न फलिनो दुमाः।
जनिक्रियावसानाच्च विशिष्टं शक्यबोधनम् ॥ । ६९ ॥
कारणं जायत इदमीदृक्षात् कारणादिति ।
ननु प्रमन्तराधीनसंसर्गः पुरुषोक्तिषु ॥ ७० ॥
पदार्था विध्यधीनात्मसंश्लेषा इतरत्र तु ।
पदानां रचना तत्र विवक्षापरिपूर्तये ॥ ७१ ॥
प्रमाणान्तरगम्येऽर्थे विवक्षा च व्यवस्थिता ।
विध्यर्थसिद्धये वदे तदभावे स्वसंगतेः ॥ ७२ ॥
विशिष्टार्थगतिर्मुन्तिरग्रहे ग्रहविभ्रमः ।
कथं नु विध्यधीनत्वं यदि स्यादन्यथा वृथा ॥ ७३ ॥
विधिर्निधषयस्तुल्यमिदमन्यपदोदिते ।
विशिष्टार्थवगत्यान्यपदार्थेऽपि प्रयुज्यते ॥ ७४ ॥
अथेवरवं प्रमाभावादरत्वसौ चेदनर्थकः ।
विधिनैवं कस्य हेतोरेथ स्यादपरं पदम् ॥ ७५ ॥
प्रमाणान्तरसिद्धार्थं प्रयोग न विषयकम्।
तदर्थोऽनन्यगभ्यो हि मीयमानः समाक्षिपेत् ॥ ७६ ॥
विषयं न यथासिद्धपदर्थस्स्वनुवादभाक् ।
अव्युत्पन्नप्रवृत्तिः स्यात् संबन्धज्ञाननिह्नवे ॥ ७७ ॥
पदं स्वधर्मे व्युत्क्रमेदन्यसेिडार्थतान्यथा ।
शब्दादेव मिते येऽपि मन्यते संगतिक्रमम् ॥ ७८ ॥