सामग्री पर जाएँ

पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०
ब्रह्मसिद्धिकारिकाः

नान्योन्यसंश्रयाबथं न स्वयं प्रमिते हि सः।
परेण शब्दावगते तत्प्रदृश्या च सूचिते ॥ ७९ ॥
पदार्थान्तरवत् तत्र सुकरः संगतिग्रहः ।
तस्यैवमनुमेयत्वे कथं शब्दैकगोचरः ८० ॥
तस्यापि शब्दपूर्वत्वादनुमानैकगोचरः ।
कस्मान्न शब्दबोधोऽपि अनुमानपुरःसरः ॥ ८१ ॥
नेदंप्रथमता लभ्या बीजाङ्करवदेतयोः।
शब्दाद्वोहुश्चानुमानं सर्वस्यैव पुरः स्थितम् ॥ ८९ ॥
पदार्थान्तरवत् तेन तस्य शब्दोऽनुवादकः।
अनुमानाद्वध्यमानः शब्दादुद्धे न बुध्यते ॥ <३ ॥
प्रतिपन्नन्तरे बांध नान्यबोधानुवादकृत।
प्रवृत्तिहेतुमात्रं च शब्दार्थः स्यादलौकिकः ॥ ८४ ॥
न स कल्पयितुं शक्यस्तारिसडेलकिकादपि ।
अथ प्रमाणरूपेण स स्वशब्दप्रकाशितः ॥ <१ ॥
आक्षेप्ता निरपेक्षश्च कथ्यतेऽन्यप्रमां प्रति ।
तथाप्यसिद्धे प्रागुक्तौ दोषौ सिद्धेऽनुवादता ॥ ८६ ॥
प्रामाण्यमस्य यत्रास्तु श्रुतेस्तत्र वृथा त्वयम् ।
क च प्रमाणमेषोऽर्थे न यागादौ खशब्दके ॥ ८७ ॥
लौकिकेऽपूर्वसंसर्गः श्रोतुरस्यविधावपि ।
फलसाधनशक्तौ चेच्छब्दस्तत्र न दुष्यति ॥ ८८ ॥
पदार्थान्तरतुल्यत्वाद्विध्याका निबन्धनः ।
न संसर्गः पदार्थानां स्वशब्दैस्तु प्रकाशितः ॥ ८९ ॥
संबन्धयोग्यरूपेण तस्मात् संसर्गभागिनः।
विशिष्टार्थप्रयुक्ता हि सर्पमिव्याहृनिर्जने ॥ ९० ॥
अतो न बिभ्यभावेन संसर्गे न प्रकल्पते ।
अथ कर्तव्यताज्ञानाद्विनानर्थक्यमुच्यते ॥ ९१ ॥