सामग्री पर जाएँ

पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ब्रह्मसिद्धिकारिकाः

अथ नियोगकाण्डः ३

शब्दाद्यदात्मविज्ञानं तन्न तावद्विधीयते ।
भवत्यधीतवेदस्य तद्धि कर्मावबोधवत् ॥ १ ॥
स्वर्गकामो यजेतेति बोधेऽस्मिन्न व्यपेक्ष्यते ।
विधिरन्योऽनवस्थानान्नयं कर्मव्यवस्थितेः ॥ २ ॥
फलं विधेयावगमात् प्रवत्तिश्चोत्तरा विधेः ।।
अन्योन्यसंश्रथान्नैष शब्दो बोधः स नो परः ॥ ३ ॥
जाते बोधे न प्रवत्यं नतरां खल्वबोधके ।
शब्देन निश्चये तस्मादन्यस्मादन्यवाञ्छनम् ॥ ४ ॥
अथाविवक्षितार्थत्वनिवृत्यै प्रायेंते विधिः।
अथ ज्ञातव्य इत्युक्ते ज्ञेयः स्यान्नाविवक्षितः ।। १ ॥
तद्वर्तमर्थपरता शब्दानां लोकवेदयोः ।
अविशिष्टस्तु वाक्यार्थ इत्युत्सर्गवती यतः ॥ ६ ॥
दुष्टार्थता च स्वाध्यायविधेरत्र न भिद्यते ।
भवेदितरथा कृत्स्नः सविध्यथोंऽविवक्षितः ॥ ७ ॥
ज्ञानस्य पुरुषार्थत्वसिद्धये विधिरिष्यते ।
सर्वत्र पुरुषार्थत्वं विधेरित्यप्यपेशलम् ॥ ८ ॥
ज्ञेयाभिव्याप्तितो यस्मान्न विज्ञानात् फलान्तरम् ।
इप्यते मोक्ष इति चेत् साध्यस्तत्त्वच्युतेन सः ॥ ९ ॥
विधेर्विना कार्यशून्यं भूतार्थमनुवादकम् ।
वचः स्यादनुवादश्च प्रमाणान्तरगोचरे ॥ १० ॥
तत् प्रमाणान्तरापेकं प्रामाण्यमतिवर्तते ।
मानान्तरस्याविषये विध्यर्थं तु प्रतिष्ठितम् ॥ ११ ॥
अनपेकं प्रमाणत्वमश्नुते कर्मवाक्यवत् ।
परप्रवृत्त्यभावेऽपि प्रामाण्यायैव तद्विधिं ॥ १२ ॥
प्रमाणान्तरयातार्थमावः किमनुवादता ।
उत भूतार्थता तत्र सिद्धार्थमपि यद्वचः ॥ १३ ॥