पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तर्फकाण्डः २

सामान्यं न हि वस्त्वात्मा न मेदश्चित्र एव सः।
तस्यानन्वयन मेदवादः शब्दान्तरादयम् ॥ । २१ ॥
यदि वारिवळभावानामभेदात् तदतवतः।
अभेदवादाश्रयणं स्यादन्यविधया गिरा ॥ २२ ॥
द्रव्यपर्यायार्थकानां नय एतेन वारितः।
तेषामापि द्रव्यनयः पर्यायनय एव वा ॥ २३ ॥
उत्पादस्थितिभङ्गानामेकत्र समवायतः ।
अंतिमध्यस्थताशोकाः स्युर्न स्युरिति दुर्घटम् २१ ॥
नैकान्तः सर्वभावानां यदि सर्वविधानतः।
अप्रवृत्तिनिवृत्तदं प्राप्तं सर्वत्र ही जगत् ॥ २१ ॥
आपेक्षिकत्वाद्वेदो हि भेदप्रहपुरःसरः ।
नैकज्ञानं समीक्ष्यैकं न भेदं तवहानतः ॥ २६ ॥
आलोच्यते वस्तुमात्रं ज्ञानेनापातजन्मना ।
अचेत्यमानो भेदोऽपि चकास्तीत्यतिसाहसम् ॥ २७ ॥
प्रतिष्ठितं च विज्ञानमर्थमात्रावलम्बनम् ।
भेदेषु त्वप्रतिष्ठत्वमस्तीन्द्रियाधियामपि ॥ २८ ॥
अन्योन्याभावरूपत्वं सर्वेषां न प्रकल्पते ।
तत्रोपाञ्चौ प्रतीयन्तां तथा मिन्ना न रूपतः ॥ २९ ॥
दर्पणादौ मुखस्येव मेदोऽभेदावलम्बनः ।
भदवलम्बनऽमेदों न तथा तदभावतः ॥ ३० ॥
प्रत्येकमनुविद्धत्वादभेदेन मृषा ततः ।।
भेदो यथा तरङ्गाणां भेदाद्भदः कलावतः ॥ ३१ ॥
एकस्यैवास्तु महिमा यन्नानेव प्रकाशते ।
लाघवान्न तु भिन्नानां यचकासयमिन्नवत् ॥ ३२ ॥
यथानुवृत्तव्यवहारासिद्धिं यथावभासं कथयन्ति बालाः ।
तयैव भेदव्यवहारयोगं वदन्ति वेदान्तविवेकभाजः ॥ ३३ ॥

इति तर्ककाण्डः।