दाहपाकविभागेन कृशानुर्न हि भेदवान् ।
एकस्यैवैष महिमा भेदसंपादनासहः ॥ ८ ॥
वहेरिव यदा मावभेदकल्पस्तदा मुधा।
यथैव भिन्नशक्तीनामभिनं रूपमाश्रयः ॥ ९ ॥ ।
तथा नानाक्रियाहेतुरूपं किं नाभ्युपेयते ।
अन्योन्यसंश्रयाद्वेदो न प्रमान्तरसाधनः ॥ १० ॥
नास्मिन्नयं नायमयमिति भेदाद्विना न धीः।
मीयमानैकरूपेषु न निषेधोऽवकाशवान् ॥ ११ ॥
भेदाभेदावभासे हें विज्ञाने चेत् परीक्ष्यताम् ।
न तावद् द्वयमैकाम्यप्रख्यानानवकल्पनात् ॥ १२ ॥
समवायछतं तन्चेन्न मेदस्यापरिच्युतेः
मेदान्तर्धानसामर्थं तस्य भेदेऽपि चेन्मतम् ॥ १३ ॥
हन्तैकस्यैव तकि न यदेवमवभासते ।
इष्टः संसर्गधर्मोऽयं यवेकमपि वै तथा ॥ १४ ॥
नानावभासते चित्रं रूपमेकं तथा मतिः।
न च संबन्विसंबन्धः संसर्गं व्यवधानतः ॥ १९ ॥
व्यवहार परोपाचौ सर्वा धीर्यावहारिकी ।
अयथार्थं यदा भावभेदकल्पस्तदा मुधा ॥ १६ ॥
अयथार्थघियो बीजमवश्यं गवमेव न ।
दृष्टस्तिमिरकामादिरान्तरोऽपि पुपर्छवः ॥ १७ ॥
एकत्वमविरोधेन भेदसामान्ययोर्यदि ।
न इघात्मता भवेदेकतरनिभंक्तभागवत् ॥ १८ ॥
ऐकात्म्यबुडेमोगे चेदेवं वस्तुनि तर्यसौ ।
न ने कुतस्यमेकत्वमस्ति चेद् इयात्मता कथम् ॥ १९ ॥
बुद्धयन्तरस्य वैयर्थमेकांश इव चापतेत् ।
नानात्वादर्थवत्ता चेदेकत्वाद् व्यर्थता न किम् ॥ २० ॥
|