पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

APPENDIX IT.
॥ ओम् ॥
॥ ब्रह्मसिद्धिकारिकाः ॥
ब्रह्मकाण्डः १.


आमन्दमेकममृतमजं विज्ञानमक्षरम् ।
असर्वं सर्वमभयं नमस्यामः प्रजापतिम् ॥ १ ॥
आम्नायतः प्रसिद्धिं च कवयोऽस्य प्रचक्षते ।
भेदप्रपञ्चविलयद्वारेण च निरूपणम् ॥ २ ॥
संहृतारिखलभेदोऽतः सामान्यात्मा स वर्णितः ।
हेमेव परिहार्यादिमेदसंहारसूचितम् ॥ ३ ॥


इति ब्रह्मकाण्डः ।

अथ तर्ककाण्डः २.


आहुर्विघातू प्रत्यक्षे न निषेद्धं विपश्चितः।
नैकत्व आगमस्तेन प्रत्यक्षेण विरुध्यते ॥ १ ॥
लब्धरूपे क्वचित् किंचित् तादृगेव निषिध्यते ।
विधानमन्तरेणातो न निषेधस्य संभवः ॥ २ ॥
क्रमः संगच्छते युक्त्या नैकविज्ञानकर्मणोः ।
न संनिहितजं तच्च तदन्यामर्शि जायते ॥ ३ ॥
विधानमेव नैकस्य व्यवच्छेदोऽन्यगोचरः ।
मा स्म भूदविशेषेण मा न भूदेकधीजुषाम् ॥ १ ॥
न भेदो वस्तुनो रूपं तदभावप्रसङ्गतः।
अरूपेण च मिन्नत्वं वस्तुनो नावकल्पते ॥ ९ ॥
गौरुषेयीमपेक्षां च न हि वस्त्वनुवर्तते ।
पित्रादिविषयेऽपेक्षा जननादिप्रभाविता ।। ६ ।।
एकक्रियाविशेषेण व्यपेक्षा हस्वदीर्घयोः ।
अर्थक्रियाकृते भेदे रूपभेदो न लभ्यते ॥ ७ ॥