अथर्ववेदः/काण्डं २०/सूक्तम् ००२
दिखावट
← सूक्तं २०.००१ | अथर्ववेदः - काण्डं २० सूक्तं २०.००२ गृत्समदः(मेधातिथिर्वा)। |
सूक्तं २०.००३ → |
दे. १ मरुतः, २ अग्निः, ३ इन्द्रः, ४ द्रविणोदाः। १-२विराड् गायत्री, - - -- -
ऋतुप्रैषाः (वैता.श्रौ.सू. १९.२३ - २०.१) |
20.2
मरुतः पोत्रात्सुष्टुभः स्वर्कादृतुना सोमं पिबन्तु ॥१॥
अग्निराग्नीध्रात्सुष्टुभः स्वर्कादृतुना सोमं पिबतु ॥२॥
इन्द्रो ब्रह्मा ब्राह्मणात्सुष्टुभः स्वर्कादृतुना सोमं पिबतु ॥३॥
देवो द्रविणोदाः पोत्रात्सुष्टुभः स्वर्कादृतुना सोमं पिबतु ॥४॥