अथर्ववेदः/काण्डं २०/सूक्तम् ००३

विकिस्रोतः तः
← सूक्तं २०.००२ अथर्ववेदः - काण्डं २०
सूक्तं २०.००३
इरिम्बिष्ठिः
सूक्तं २०.००४ →
दे. इन्द्रः। गायत्री।

आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् ।
एदं बर्हिः सदो मम ॥१॥
आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना ।
उप ब्रह्माणि नः शृणु ॥२॥
ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः ।
सुतावन्तो हवामहे ॥३॥