अथर्ववेदः/काण्डं २०/सूक्तम् ००१
दिखावट
अथर्ववेदः - काण्डं २० सूक्तं २०.००१ १ विश्वामित्रः, २ गोतमः, ३ विरूपः। |
सूक्तं २०.००२ → |
दे. १ इन्द्रः, २ मरुतः, ३ अग्निः। गायत्री। |
इन्द्र त्वा वृषभं वयं सुते सोमे हवामहे ।
स पाहि मध्वो अन्धसः ॥१॥
मरुतो यस्य हि क्षये पाथा दिवो विमहसः ।
स सुगोपातमो जनः ॥२॥
उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे ।
स्तोमैर्विधेमाग्नये ॥३॥