अथर्ववेदः/काण्डं ६/सूक्तम् ०४१

विकिस्रोतः तः
← सूक्तं ६.०४० अथर्ववेदः - काण्डं ६
सूक्तं ६.०४१
ब्रह्मा
सूक्तं ६.०४२ →
दे. १. चन्द्रमाः, २. सरस्वती, ३. दैव्या ऋषयः। १. भुरिक्, २. अनुष्टुप्, ३. त्रिष्टुप्

अनेन तृचेन गोदानाख्ये संस्कारकर्मणि महाव्रीहिमयं स्थालीपाकं शान्त्युदकेन अभ्युक्ष्य अभिमन्त्र्य आयुष्कामं माणवकं प्राशयेत्(कौ.सू. ५४.११)

6.41
मनसे चेतसे धिय आकूतय उत चित्तये ।
मत्यै श्रुताय चक्षसे विधेम हविषा वयम् ॥१॥
अपानाय व्यानाय प्राणाय भूरिधायसे ।
सरस्वत्या उरुव्यचे विधेम हविषा वयम् ॥२॥
मा नो हासिषुर्ऋषयो दैव्या ये तनूपा ये नस्तन्वस्तनूजाः ।
अमर्त्या मर्त्यामभि नः सचध्वमायुर्धत्त प्रतरं जीवसे नः ॥३॥