अथर्ववेदः/काण्डं ६/सूक्तम् ०४०

विकिस्रोतः तः
← सूक्तं ६.०३९ अथर्ववेदः - काण्डं ६
सूक्तं ६.०४०
ऋषिः - अथर्वा ।
सूक्तं ६.०४१ →
दे. १. द्यावापृथिवी, सोमः, सविता, अन्तरिक्षं, सप्तऋषय़ः, २. सविता, इन्द्रः, ३. इन्द्रः। १-२ जगती, ३ अनुष्टुप्।

अभयं द्यावापृथिवी इहास्तु नोऽभयं सोमः सविता नः कृणोतु ।
अभयं नोऽस्तूर्वन्तरिक्षं सप्तऋषीणां च हविषाभयं नो अस्तु ॥१॥
अस्मै ग्रामाय प्रदिशश्चतस्र ऊर्जं सुभूतं स्वस्ति सविता नः कृणोतु ।
अशत्र्विन्द्रो अभयं नः कृणोत्वन्यत्र राज्ञामभि यातु मन्युः ॥२॥
अनमित्रं नो अधरादनमित्रं न उत्तरात्।
इन्द्रानमित्रं नः पश्चादनमित्रं पुरस्कृधि ॥३॥