अथर्ववेदः/काण्डं ६/सूक्तम् ०३९

विकिस्रोतः तः
← सूक्तं ६.०३८ अथर्ववेदः - काण्डं ६
सूक्तं ६.०३९
ऋषिः - अथर्वा (वर्चस्कामः)
सूक्तं ६.०४० →
दे. (बृहस्पतिः), २ इन्द्रः, ३ इन्द्रः, अग्निः, सोमः। १ जगती, २ त्रिष्टुप् , ३ अनुष्टुप्।

यशो हविर्वर्धतामिन्द्रजूतं सहस्रवीर्यं सुभृतं सहस्कृतम् ।
प्रसर्स्राणमनु दीर्घाय चक्षसे हविष्मन्तं मा वर्धय ज्येष्ठतातये ॥१॥
अछा न इन्द्रं यशसं यशोभिर्यशस्विनं नमसाना विधेम ।
स नो रास्व राष्ट्रमिन्द्रजूतं तस्य ते रातौ यशसः स्याम ॥२॥
यशा इन्द्रो यशा अग्निर्यशाः सोमो अजायत ।
यशा विश्वस्य भूतस्य अहमस्मि यशस्तमः ॥३॥