कौशिकसूत्रम्/अध्यायः ०७

विकिस्रोतः तः

50
स्वस्तिदा ये ते पन्थान इत्यध्वानं दक्षिणेन प्रक्रामति १
व्युदस्यत्यसंख्याताः शर्कराः २
तृणानि च्छित्वोपतिष्ठते ३
आरेऽमूः पारे पातं नो य एनं परिषीदन्ति यदायुधं दण्डेन व्याख्यातम् ४
दिष्ट्या मुखं विमाय संविशति ५
त्रीणि पदानि प्रमायोत्तिष्ठति ६
तिस्रो दिष्टीः ७
प्रेतं पादावित्यवशस्य ८
पाययति ९
उपस्थास्त इति त्रीण्योप्यातिक्रामति १०
स्वस्ति मात्र इति निश्युपतिष्ठते ११
इन्द्रमहमिति पण्यं संपातवदुत्थापयति १२
निमृज्य दिग्युक्ताभ्यां दोषो गाय पातं न इति पञ्चानडुद्भ्यो यमो मृत्युर्विश्वजिच्छकधूमं भवाशर्वावित्युपदधीत १३
उत्तमेन सारूपवत्सस्य रुद्राय त्रिर्जुहोति १४
उपोत्तमेन सुहृदो ब्राह्मणस्य शकृत्पिण्डान्पर्वस्वाधाय शकधूमं किमद्याहरिति पृच्छति १५
भद्रं सुमङ्गलमिति प्रतिपद्यते १६
युक्तयोर्मा नो देवा यस्ते सर्प इति शयनशालोर्वराः परिलिखति १७
तृणानि युगतर्द्मना संपातवन्ति द्वारे प्रचृतति १८
ऊबध्यं संभिनत्ति १९
निखनति २०
आदधाति २१
अपामार्गप्रसूनान्कुद्रीचीशफान्पराचीनमूलान् २२

५०

51
उदित इति खादिरं शङ्कुं संपातवन्तमुद्गृह्णन्निखनन्गा अनुव्रजति १
निनयनं समुह्य चारे सारूपवत्सस्येन्द्राय त्रिर्जुहोति २
दिश्यान्बलीन्हरति ३
प्रतिदिशमुपतिष्ठते ४
मध्ये पञ्चममनिर्दिष्टम् ५
शेषं निनयति ६
ब्रह्म जज्ञानं भवाशर्वावित्यासन्नमरण्ये पर्वतं यजते ७
अन्यस्मिन्भवशर्वपशुपत्युग्ररुद्रमहादेवेशानानां पृथगाहुतीः ८
गोष्ठे च द्वितीयमश्नाति ९
दर्भानाधाय धूपयति १०
भूत्यै वः पुष्ट्यै व इति प्रथमजयोर्मिथुनयोर्मुखमनक्ति ११
तिस्रो नलदशाखा वत्सान्पाययति १२
शाखयोदकधारया गाः परिक्रामति १३
अश्मवर्म म इति षडश्मनः संपातवतः स्रक्तिषु पर्यधस्तान्निखनति १४
अलसालेत्यालभेषजम् १५
त्रीणि सिलाञ्जालाग्राण्युर्वरामध्ये निखनति १६
हतं तर्दमित्ययसा सीसं कर्षन्नुर्वरां परिक्रामति १७
अश्मनोऽवकिरति १८
तर्दमवशिरसं वदनात्केशेन समुह्योर्वरामध्ये निखनति १९
उक्तं चारे २०
बलीन्हरत्याशाया आशापतयेऽश्विभ्यां क्षेत्रपतये २१
यदैतेभ्यः कुर्वीत वाग्यतस्तिष्ठेदास्तमयात् २२

५१

52
ये पन्थान इति परीत्योपदधीत १
प्रयच्छति २
यस्यास्ते यत्ते देवी विषाणा पाशानित्युन्मोचनप्रतिरूपं संपातवन्तं करोति ३
वाचा बद्धाय भूमिपरिलेखम् ४
आयन इति शमनमन्तरा ह्रदं करोति ५
शाले च ६
अवकया शालां परितनोति ७
शप्यमानाय प्रयच्छति ८
निदग्धं प्रक्षालयति ९
महीमू ष्विति तरणान्यालम्भयति १०
दूरान्नावं संपातवतीं नौमणिं बध्नाति ११
प्रपथ इति नष्टैषिणां प्रक्षालिताभ्यक्तपाणिपादानां दक्षिणान्पाणीन्निमृज्योत्थापयति १२
एवं संपातवतः १३
निमृज्यैकविंशतिं शर्कराश्चतुष्पथेऽवक्षिप्यावकिरति १४
नमस्कृत्येति मन्त्रोक्तम् १५
अंहोलिङ्गानामापो भोजनहवींष्यभिमर्शनोपस्थानमादित्यस्य १६
स्वयं हविषां भोजनम् १७
विश्वे देवा इत्यायुष्याणि १८
स्थालीपाके घृतपिण्डान्प्रतिनीयाश्नाति १९
अस्मिन्वसु यदाबध्नन्नव प्राणानिति युग्मकृष्णलमादिष्टानां स्थालीपाक आधाय बध्नाति २०
आशयति २१

५२

53
आयुर्दा इति गोदानं कारयिष्यन्सभारान्संभरति १
अमम्रिमोजोमानीं दूर्वामकर्णमश्ममण्डलमानडुहशकृत्पिण्डं षड्दर्भप्रान्तानि कंसमहते वसने शुद्धमाज्यं शान्ता ओषधीर्नवमुदकुम्भम् २
बाह्यतः शान्तवृक्षस्येध्मं प्राञ्चमुपसमाधाय ३
परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिरुदपात्रमुपसाद्य परिचरणेनाज्यं परिचर्य ४
नित्यान्पुरस्ताद्धोमान्हुत्वाज्यभागौ च ५
पश्चादग्नेः प्राङ्मुख उपविश्यान्वारब्धाय शान्त्युदकं करोति ६
तत्रैतत्सूक्तमनुयोजयति ७
त्रिरेवाग्निं संप्रोक्षति त्रिः पर्युक्षति ८
त्रिः कारयमाणमाचामयति च संप्रोक्षति च ९
शकृत्पिण्डस्य स्थालरूपं कृत्वा सुहृदे ब्राह्मणाय प्रयच्छति १०
तत्सुहृद्दक्षिणतोऽग्नेरुदङ्मुख आसीनो धारयति ११
अथास्मा अन्वारब्धाय करोति १२
आयुर्दा इत्यनेन सूक्तेनाज्यं जुह्वन्मूर्ध्नि संपातानानयति १३
दक्षिणे पाणावश्ममण्डल उदपात्र उत्तरसंपातान्स्थालरूप आनयति १४
अमम्रिमोजोमानीं चोदपात्रेऽवधाय १५
स्थालरूपे दूर्वां शान्त्युदकमुष्णोदकं चैकधाभिसमासिच्य १६
आयमगन्सविता क्षुरेणेत्युदपात्रमनुमन्त्रयते १७
अदितिः श्मश्वित्युन्दति १८
यत्क्षुरेणेत्युदक्पत्त्रं क्षुरमद्भि श्चोत्य त्रिः प्रमार्ष्टि १९
येनावपदिति दक्षिणस्य केशपक्षस्य दर्भपिञ्जूल्या केशानभिनिधाय प्रछिद्य स्थालरूपे करोति २०
एवमेव द्वितीयं करोति २१
एवं तृतीयम् २२
एवमेवोत्तरस्य केशपक्षस्य करोति २३

५३

54
अथ नापितं समादिशत्यक्षण्वन्वपकेशश्मश्रुरोम परिवप नखानि च कुर्विति १
पुनः प्राणः पुनर्मैत्विन्द्रियमिति त्रिर्निमृज्य २
त्वयि महिमानं सादयामीत्यन्ततो योजयेत् ३
अथैनमुप्तकेशश्मश्रुं कृत्तनखमाप्लावयति ४
हिरण्यवर्णा इत्येतेन सूक्तेन गन्धप्रवादाभिरलंकृत्य ५
स्वक्तं म इत्यानक्ति ६
अथैनमहतेन वसनेन परिधापयति परि धत्तेति द्वाभ्याम् ७
एह्यश्मानमा तिष्ठेति दक्षिणेन पादेनाश्ममण्डलमास्थाप्य प्रदक्षिणमग्निमनुपरिणीय ८
अथास्य वासो निर्मुष्णाति यस्य ते वास इत्येतया ९
अथैनमपरेणाहतेन वसनेनाच्छादयत्ययं वस्ते गर्भं पृथिव्या इति पञ्चभिः १०
यथा द्यौर्मनसे चेतसे धिय इति महाव्रीहीणां स्थालीपाकं श्रपयित्वा शान्त्युदकेनोपसिच्याभिमन्त्र्य प्राशयति ११
प्राणापानावोजोऽसीत्युपदधीत १२
तुभ्यमेव जरिमन्निति कुमारं मातापितरौ त्रिः संप्रयच्छेते १३
घृतपिण्डानाशयतः १४
चूडाकरणं च गोदानेन व्याख्यातम् १५
परिधापनाश्ममण्डलवर्जम् १६
शिवे ते स्तामिति परिदानान्तानि १७
पार्थिवस्य मा प्र गामेति चतस्रः सर्वाण्यपियन्ति १८
अमम्रिमोजोमानीं च दूर्वां च केशांश्च शकृत्पिण्डं चैकधाभिसमाहृत्य १९
शान्तवृक्षस्योपर्यादधाति २०
अधिकरणं ब्रह्मणः कंसवसनं गौर्दक्षिणा २१
ब्राह्मणान्भक्तेनोपेप्सन्ति २२

५४

55
उपनयनम् १
आयमगन्निति मन्त्रोक्तम् २
यत्क्षुरेणेत्युक्तम् ३
येनावपदिति सकृदपिञ्जूलि ४
लौकिकं च समानामा परिधानात् ५
उपेतपूर्वस्य नियतं सवान्दास्यतोऽग्नीनाधास्यमानः पर्यवेतव्रतदीक्षिष्यमाणानाम् ६
सोष्णोदकं शान्त्युदकं प्रदक्षिणमनुपरिणीय पुरस्तादग्नेः प्रत्यङ्मुखमवस्थाप्य ७
आह ब्रूहि ८
ब्रह्मचर्यमागमुप मा नयस्वेति ९
को नामासि किंगोत्र इत्यस्राविति यथा नामगोत्रे भवतस्तथा प्रब्रूहि १०
आर्षेयं मा कृत्वा बन्धुमन्तमुपनय ११
आर्षेयं त्वा कृत्वा बन्धुमन्तमुपनयामीति १२
ॐ भूर्भुवः स्वर्जनदोमित्यञ्जलावुदकमासिञ्चति १३
उत्तरोऽसानि ब्रह्मचारिभ्य इत्युत्तमं पाणिमन्वादधाति १४
एष म आदित्यपुत्रस्तन्मे गोपायस्वेत्यादित्येन समीक्षते १५
अपक्रामन्पौरुषेयाद्वृणान इत्येनं बाहुगृहीतं प्राञ्चमवस्थाप्य दक्षिणेन पाणिना नाभिदेशेऽभिसंस्तभ्य जपति १६
अस्मिन्वसु वसवो धारयन्तु विश्वे देवा वसव आ यातु मित्रोऽमुत्रभूयादन्तकाय मृत्यव आ रभस्व प्राणाय नमो विषासहिमित्यभिमन्त्रयते १७
अथापि परित्वरमाण आ यातु मित्र इत्यपि खल्वेतावतैवोपनीतो भवति १८
प्रच्छाद्य त्रीन्प्राणायामान्कृत्वावच्छाद्य वत्सतरीमुदपात्रे समवेक्षयेत् १९
समिन्द्र नः सं वर्चसेति द्वाभ्यामुत्सृजन्ति गाम् २०

५५

56
श्रद्धाया दुहितेति द्वाभ्यां भाद्रमौञ्जीं मेखलां बध्नाति १
मित्रावरुणयोस्त्वा हस्ताभ्यां प्रसूतः प्रशिषा प्रयच्छामीति पालाशं दण्डं प्रयच्छति २
मित्रावरुणयोस्त्वा हस्ताभ्यां प्रसूतः प्रशिषा प्रतिगृह्णामि । सुश्रवः सुश्रवसं मा कुर्ववक्रोऽविथुरोऽहं भूयासमिति प्रतिगृह्णाति ३
श्येनोऽसीति च ४
अथैनं व्रतादानीयाः समिध आधापयति ५
अग्ने व्रतपते व्रतं चरिष्यामि तच्छकेयं तत्समापेयं तन्मे राध्यतां तन्मे समृध्यतां तन्मे मा व्यनशत्तेन राध्यासं तत्ते प्रब्रवीमि तदुपाकरोमि अग्नये व्रतपतये स्वाहा ६
वायो व्रतपते । सूर्य व्रतपते । चन्द्र व्रतपते । आपो व्रतपत्न्यो । देवा व्रतपतयो । वेदा व्रतपतयो । व्रतानां व्रतपतयो व्रतमचारिषं तदशकं तत्समाप्तं तन्मे राद्धं तन्मे समृद्धं तन्मे मा व्यनशत्तेन राद्धोऽस्मि तद्वः प्रब्रवीमि तदुपाकरोमि व्रतेभ्यो व्रतपतिभ्यः स्वाहेति ७
अथैनं बद्धमेखलमाहितसमित्कं सावित्रीं वाचयति ८
पच्छः प्रथमम् ९
ततोऽर्धर्चशः १०
ततः संहिताम् ११
अथैनं संशास्त्यग्नेश्चासि ब्रह्मचारिन्मम चापोऽशान कर्म कुरूर्ध्वस्तिष्ठन्मा दिवा स्वाप्सीः समिध आधेहि १२
अथैनं भूतेभ्यः परिददात्यग्नये त्वा परिददामि ब्रह्मणे त्वा परिददाम्युदङ्क्याय त्वा शूल्वाणाय परिददामि शत्रुं जयाय त्वा क्षात्राणाय परिददामि मार्त्युंजयाय त्वा मार्त्यवाय परिददाम्यघोराय त्वा परिददामि तक्षकाय त्वा वैशालेयाय परिददामि हाहाहूहूभ्यां त्वा गन्धर्वाभ्यां परिददामि योगक्षेमाभ्यां त्वा परिददामि भयाय च त्वाभयाय च परिददामि विश्वेभ्यस्त्वा देवेभ्यः परिददामि सर्वेभ्यस्त्वा देवेभ्यः परिददामि विश्वेभ्यस्त्वा भूतेभ्यः परिददामि सर्वेभ्यस्त्वा भूतेभ्यः परिददामि सप्रजापतिकेभ्यः १३
स्वस्ति चरतादिहेति मयि रमन्तां ब्रह्मचारिण इत्यनुगृह्णीयात् १४
नानुप्रणुदेत् १५
प्रणीतीरभ्यावर्तस्वेत्यभ्यात्ममावर्तयति १६
यथापः प्रवता यन्ति यथा मासा अहर्जरम्।
एवा मा ब्रह्मचारिणो धातरायन्तु सर्वदा।।
स्वाहेत्याचार्यः समिधमादधाति १७

५६

57
श्राद्धाया दुहितेति द्वाभ्यां भाद्रमौञ्जीं मेखलां ब्राह्मणाय बध्नाति १
मौर्वीं क्षत्रियाय धनुर्ज्यां वा २
क्षौमिकीं वैश्याय ३
मित्रावरुणयोस्त्वा हस्ताभ्यां प्रसूतः प्रशिषा प्रयच्छामीति पालाशं दण्डं ब्राह्मणाय प्रयच्छति ४
आश्वत्थं क्षत्रियाय ५
न्यग्रोधावरोहं वैश्याय ६
यद्यस्य दण्डो भज्येत य ऋते चिदभिश्रिष इत्येतयालभ्याभिमन्त्रयते ७
सर्वत्र शीर्णे भिन्ने नष्टेऽन्यं कृत्वा पुनर्मैत्विन्द्रियमित्यादधीत ८
अथ वासांसि ९
ऐणेयहारिणानि ब्राह्मणस्य १०
रौरवपार्षतानि क्षत्रियस्य ११
आजाविकानि वैश्यस्य १२
सर्वेषां क्षौमशाणकम्बलवस्त्रम् १३
काषायाणि १४
वस्त्रं चाप्यकाषायम् १५
भवति भिक्षां देहीति ब्राह्मणश्चरेत् १६
भिक्षां भवती ददात्विति क्षत्रियः १७
देहि भिक्षां भवतीति वैश्यः १८
सप्त कुलानि ब्राह्मणश्चरेत्त्रीणि क्षत्रियो द्वे वैश्यः १९
सर्वं ग्रामं चरेद्भैक्षं स्तेनपतितवर्जम् २०
मय्यग्र इति पञ्चप्रश्नेन जुहोति २१
सं मा सिञ्चन्त्विति त्रिः पर्युक्षति २२
यदग्ने तपसा तपोऽग्ने तपस्तप्यामह इति द्वाभ्यां परिसमूहयति २३
इदमापः प्रवहतेति पाणी प्रक्षालयते २४
सं मा सिञ्चन्त्विति त्रिः पर्युक्षति २५
अग्ने समिधमाहार्षमित्यादधाति चतस्रः २६
एधोऽसीत्यूष्मभक्षं भक्षयत्या निधनात् २७
त्वं नो मेध इत्युपतिष्ठते २८
यदन्नमिति तिसृभिर्भैक्षस्य जुहोति २९
अहरहः समिध आहृत्यैवं सायंप्रातरभ्यादध्यात् ३०
मेधाजनन आयुष्यैर्जुहुयात् ३१
यथाकामं द्वादशरात्रमरसाशी भवति ३२

५७

58
भद्राय कर्णः क्रोशतु भद्रायाक्षि वि वेपताम्।
परा दुःष्वप्न्यं सुव यद्भद्रं तन्न आ सुव।।
अक्षिवेपं दुःष्वप्न्यमार्तिं पुरुषरेषिणीम्।
तदस्मदश्विना युवमप्रिये प्रति मुञ्चतम्।।
यत्पार्श्वादुरसो मे अङ्गादङ्गादववेपते।
अश्विना पुष्करस्रजा तस्मान्नः पातमंहस
इति कर्णं क्रोशन्तमनुमन्त्रयते १
अक्षि वा स्फुरत् २
वि देवा जरसोत देवा आवतस्त उप प्रियमन्तकाय मृत्यव आ रभस्व प्राणाय नमो विषासहिमित्यभिमन्त्रयते ३
ब्राह्मणोक्तमृषिहस्तश्च ४
कर्मणे वां वेषाय वां सुकृताय वामिति पाणी प्रक्षाल्य ५
निर्दुरर्मण्य इति संधाव्य ६
शुद्धा न आप इति निष्ठीव्य जीवाभिराचम्य ७
एहि जीवमित्याञ्जनमणिं बध्नाति ८
वाताज्जात इति कृशनम् ९
नव प्राणानिति मन्त्रोक्तम् १०
घृतादुल्लप्तमा त्वा चृतत्वृतुभिष्ट्वा मुञ्चामि त्वेति देवा आवतस्त उप प्रियमन्तकाय मृत्यव आ रभस्व प्राणाय नमो विषासहिमित्यभिमन्त्रयते ११
निर्दुरर्मण्य इति सर्वसुरभिचूर्णैररण्येऽप्रतीहारं प्रलिम्पति १२
अथ नामकरणम् १३
आ रभस्वेमामित्यविच्छिन्नामुदकधारामालम्भयति १४
पूतुदारुं बध्नाति १५
पाययति १६
यत्ते वास इत्यहतेनोत्तरसिचा प्रच्छादयति १७
शिवे ते स्तामिति कुमारं प्रथमं निर्णयति १८
शिवौ ते स्तामिति व्रीहियवौ प्राशयति १९
अह्ने च त्वेत्यहोरात्राभ्यां परिददाति २०
शरदे त्वेत्यृतुभ्यः २१
उदस्य केतवो मूर्धाहं विषासहिमित्युद्यन्तमुपतिष्ठते २२
मध्यंदिनेऽस्तं यन्तं सकृत्पर्यायाभ्याम् २३
अंहोलिङ्गानामापो भोजनहवींष्युक्तानि २४
उत्तमासु यन्मातली
रथक्रीतमिति सर्वासां द्वितीया २५

५८

59
विश्वे देवा इति विश्वानायुष्कामो यजते १
उपतिष्ठते २
इदं जनास इति द्यावापृथिव्यौ पुष्टिकामः ३
संपत्कामः ४
इन्द्र जुषस्वेतीन्द्रं बलकामः ५
इन्द्रमहमिति पण्यकामः ६
उदेनमुत्तरं नय योऽस्मानिन्द्रः सुत्रामेति ग्रामकामः ७
ग्रामसांपदानामप्ययः ८
यशसं मेन्द्र इति यशस्कामः ९
मह्यमाप इति व्यचस्कामः १०
आगच्छत इति जायाकामः ११
वृषेन्द्रस्येति वृषकामः १२
आ त्वाहार्षं ध्रुवा द्यौरिति ध्रौव्यकामः १३
त्यमू षु त्रातारमा मन्द्रैरिति स्वस्त्ययनकामः १४
सामास्त्वाग्नेऽभ्यर्चतेत्यग्निं संपत्कामः १५
पृथिव्यामिति मन्त्रोक्तम् १६
तदिदास धीती वेतीन्द्राग्नी १७
यस्येदमा रजोऽथर्वाणमदितिर्द्यौर्दितेः पुत्राणां बृहस्पते सवितरित्यभ्युदितं ब्रह्मचारिणं बोधयति १८
धाता दधातु प्रजापतिर्जनयत्यन्वद्य नो यन्न इन्द्रो ययोरोजसा विष्णोर्नु कमग्नाविष्णू सोमारुद्रा सिनीवालि बृहस्पतिर्नो यत्ते देवा अकृण्वन्पूर्णा पश्चात्प्रजापतेऽभ्यर्चत को अस्या न इति प्रजापतिम् १९
अग्न इन्द्रश्चेति मन्त्रोक्तान्सर्वकामः २०
य ईशे ये भक्षयन्त इतीन्द्राग्नी लोककामः २१
अन्नं ददाति प्रथमम् २२
पशूपाकरणमुत्तमम् २३
सवपुरस्ताद्धोमा युज्यन्ते २४
दोषो गायेत्यथर्वाणं समावृत्याश्नाति २५
अभयं द्यावापृथिवी श्येनोऽसीति प्रतिदिशं सप्तर्षीनभयकामः २६
उत्तरेण दीक्षितस्य वा ब्रह्मचारिणो वा दण्डप्रदानम् २७
द्यौश्च म इति द्यावापृथिव्यौ विरिष्यति २८
यो अग्नाविति रुद्रान्स्वस्त्ययनकामः स्वस्त्ययनकामः २९
१०
५९
इत्यथर्ववेदे कौशिकसूत्रे सप्तमोऽध्यायः समाप्तः


(७,१[५०].१) <स्वस्तिदा [१.२१.१]> <ये ते पन्थानो [७.५५.१।१२.१.४७]>_इत्यध्वानं दक्षिणेन प्रक्रामति

(७,१[५०].२) व्युदस्यति_असंख्याताः शर्कराः

(७,१[५०].३) तृणानि छित्वा_उपतिष्ठते

(७,१[५०].४) <आरे [१.२६.१]>_<अमूः पारे [१.२७.१]> <पातं न [६.३.१]>_<य एनं परिषीदन्ति [६.७६.१]> यदायुधं दण्डेन व्याख्यातम्

(७,१[५०].५) दिष्ट्या मुखं विमाय संविशति

(७,१[५०].६) त्रीणि पदानि प्रमाय_उत्तिष्ठति

(७,१[५०].७) तिस्रो दिष्टीः

(७,१[५०].८) <प्रेतं पादौ [१.२७.४]>_इत्य्+अवसस्य (एद्. अवशस्य॑ सेए Cअलन्द्, Kल्. ष्छ्र्., प्. ६१)

(७,१[५०].९) पाययति

(७,१[५०].१०) <उपस्थास्ते [१२.१.६२]>_इति त्रीणि_ओप्यातिक्रामति

(७,१[५०].११) <स्वस्ति मात्र [१.३१.४]> इति निशि_उपतिष्ठते

(७,१[५०].१२) <इन्द्रमहं [३.१५.१]>_इति पण्यं संपातवदुत्थापयति

(७,१[५०].१३) निमृज्य दिग्युक्ताभ्यां <दोषो गाय [६.१.१]> <पातं न [६.३६.७]> इति पञ्च_<अनडुद्भ्यस्[६.५९.१]>_<यमो मृत्युर्[६.९३.१]> <विश्वजित्[६.१०७.१]>_<शकधूमं [६.१२८.१]> <भवाशर्वौ [४.२८.१।११.२.१।११.६.९]>_इत्युपदधीत

(७,१[५०].१४) उत्तमेन सारूपवत्सस्य रुद्राय त्रिर्जुहोति

(७,१[५०].१५) उप_उत्तमेन सुहृदो ब्राह्मणस्य शकृत्पिण्डान् पर्वसु_आधाय शकधूमं किमद्याहरिति पृछति

(७,१[५०].१६) भद्रं सुमङ्गलिमिति प्रतिपद्यते

(७,१[५०].१७) युक्तयोर्<मा नो देवा [६.५६.१]> <यस्ते सर्पो [१२.१.४६]>_इति शयनशाला_उर्वराः परिलिखति

(७,१[५०].१८) तृणानि युगतर्द्मना संपातवन्ति द्वारे प्रचृतति

(७,१[५०].१९) ऊबध्यं संभिनत्ति

(७,१[५०].२०) निखनति

(७,१[५०].२१) आदधाति

(७,१[५०].२२) अपामार्गप्रसूनान् कुद्रीचीशफान् परीचीनमूलान्


(७,२[५१].१) <उदितस्[४.३.१]>_इति खादिरं शङ्कुं संपातवन्तमुद्गृह्णन्निखनन् गा अनुव्रजति

(७,२[५१].२) निनयनं समुह्य चारे सारूपवत्सस्य_इन्द्राय त्रिर्जुहोति

(७,२[५१].३) दिश्यान् बलीन् हरति

(७,२[५१].४) प्रतिदिशमुपतिष्ठते

(७,२[५१].५) मध्ये पञ्चममनिर्दिष्टम्

(७,२[५१].६) शेषं निनयति

(७,२[५१].७) <ब्रह्म जज्ञानं [४.१.१।५.६.१]>_<भवाशर्वौ [४.२८.१।११.२.१।११.६.९]>_इत्यासन्नमरण्ये पर्वतं यजते

(७,२[५१].८) अन्यस्मिन् भवशर्वपशुपति_उग्ररुद्रमहादेव_ईशानानां पृथगाहुतीः

(७,२[५१].९) गोष्ठे च द्वितीयमश्नाति

(७,२[५१].१०) दर्भानाधाय धूपयति

(७,२[५१].११) भूत्यै वः पुष्ट्यै व इति प्रथमजयोर्मिथुनयोर्मुखमनक्ति

(७,२[५१].१२) तिस्रो नलदशाखा वत्सान् पाययति

(७,२[५१].१३) शाखया_उदकधारया गाः परिक्रामति

(७,२[५१].१४) <अश्मवर्म मे [५.१०.१]>_इति षडश्मनः संपातवतः +स्रक्तिषूपरि_(एद्. स्रक्तिषु पर्य्॑ सेए Cअलन्द्, Kल्. ष्छ्र्., प्. ६१)_अधस्तान्निखनति

(७,२[५१].१५) <अलसाला [६.१६.४]>_इत्यालभेषजम्

(७,२[५१].१६) त्रीणि सिलाञ्जालाग्राणि_उर्वरामध्ये निखनति

(७,२[५१].१७) <हतं तर्दं [६.५०.१]>_इति अयसा सीसं कर्षन्नुर्वरां परिक्रामति

(७,२[५१].१८) अश्मनो_अवकिरति

(७,२[५१].१९) तर्दमवशिरसं वदनात्केशेन समुह्य_उर्वरामध्ये निखनति

(७,२[५१].२०) उक्तं चारे

(७,२[५१].२१) बलीन् हरति_आशाया आशापतये_अश्विभ्यां क्षेत्रपतये

(७,२[५१].२२) यदा_एतेभ्यः कुर्वीत वाग्यतस्तिष्ठेदास्तमयाद्


(७,३[५२].१) <ये पन्थानो [६.५५.१]>_इति परीत्य_उपदधीत

(७,३[५२].२) प्रयछति

(७,३[५२].३) <यस्यास्ते [६.८४.१]> <यत्ते देवी [६.६३.१]> <विषाणा पाशान् [६.१२१.१]> इत्युन्मोचनप्रतिरूपं संपातवन्तं करोति

(७,३[५२].४) वाचा बद्धाय भूमिपरिलेखम्

(७,३[५२].५) <आयने [६.१०६.१]>_इति शमनमन्तरा ह्रदं करोति

(७,३[५२].६) शाले च

(७,३[५२].७) अवकया शालां परितनोति

(७,३[५२].८) शप्यमानाय प्रयछति

(७,३[५२].९) निदग्धं प्रक्षालयति

(७,३[५२].१०) <महीमू षु [७.६.२]>_इति तरणानि_आलम्भयति

(७,३[५२].११) दूरात्_नावं संपातवतीं नैमणिं बध्नाति

(७,३[५२].१२) <प्रपथे [७.९.१]>_इति नष्ट_एषिणां प्रक्षालिताभ्यक्तपाणिपादानां दक्षिणान् पाणीन्निमृज्य_उत्थापयति

(७,३[५२].१३) एवं संपातवतः

(७,३[५२].१४) निमृज्य_एकविंशतिं शर्करास्_चतुष्पथे_अवक्षिप्यावकिरति

(७,३[५२].१५) <नमस्कृत्य [७.१०२.१]>_इति मन्त्रोक्तम्

(७,३[५२].१६) अंहोलिङ्गानामापो भोजनहवींषि_अभिमर्शन_उपस्थानमादित्यस्य

(७,३[५२].१७) स्वयं हविषां भोजनम्

(७,३[५२].१८) <विश्वे देवा [१.३०.१]>_इत्यायुष्याणि

(७,३[५२].१९) स्थालीपाके घृतपिण्डान् प्रतिनीयाश्नाति

(७,३[५२].२०) <अस्मिन् वसु [१.९.१]> <यदाबध्नन् [१.३५.१]> <नव प्राणान् [५.२८.१> इति युग्मकृष्णलमादिष्टानां स्थालीपाके_आधाय बध्नाति

(७,३[५२].२१) आशयति


(७,४[५३].१) <आयुर्दा [२.१३.१]> इति गोदानं कारयिष्यन् संभारान् संभरति

(७,४[५३].२) अमम्रिमोजोमानीं दूर्वामकर्णमश्ममण्डलमानडुहशकृत्पिण्डं षड्दर्भप्रान्तानि कंसमहते वसने शुद्धमाज्यं शान्ता ओषधीर्नवमुदकुम्भम्

(७,४[५३].३) बाह्यतः शान्तवृक्षस्य_इध्मं प्राञ्चमुपसमाधाय

(७,४[५३].४) परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिरुदपात्रमुपसाद्य परिचरणेनाज्यं परिचर्य

(७,४[५३].५) नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ च

(७,४[५३].६) पश्चादग्नेः प्राङ्मुख उपविश्यान्वारब्धाय शान्त्युदकं करोति

(७,४[५३].७) तत्र_एतत्सूक्तमनुयोजयति

(७,४[५३].८) त्रिरेवाग्निं संप्रोक्षति त्रिः पर्युक्षति

(७,४[५३].९) त्रिः कारयमाणमाचामयति च संप्रोक्षति च

(७,४[५३].१०) शकृत्पिण्डस्य स्थालरूपं कृत्वा सुहृदे ब्राह्मणाय प्रयछति

(७,४[५३].११) तत्सुहृद्दक्षिणतो_अग्नेरुदङ्मुख आसीनो धारयति

(७,४[५३].१२) अथास्मै_अन्वारब्धाय करोति

(७,४[५३].१३) <आयुर्दा [२.१३.१]> इत्यनेन सूक्तेनाज्यं जुह्वन्मूर्ध्नि संपातानानयति

(७,४[५३].१४) दक्षिणे पाणौ_अश्ममण्डले_उदपात्रे_उत्तरसंपातान् स्थालरूप आनयति

(७,४[५३].१५) अमम्रिमोजोमानीं च_उदपात्रे_अवधाय

(७,४[५३].१६) स्थालरूपे दूर्वां शान्त्युदकमुष्णोदकं च_एकधाभिसमासिच्य

(७,४[५३].१७) <आयमगन् सविता क्षुरेण [६.६८.१]>_इत्युदपात्रमनुमन्त्रयते

(७,४[५३].१८) <अदितिः श्मश्रु [६.६८.२]>_इत्युन्दति

(७,४[५३].१९) <यत्क्षुरेण [८.२.१७]>_इत्युदक्पत्त्रं क्षुरमद्भि श्चोत्य त्रिः प्रमार्ष्टि

(७,४[५३].२०) <येनावपत्[६.६८.३]>_इति दक्षिणस्य केशपक्षस्य दर्भपिञ्जुल्या केशानभिनिधाय प्रछिद्य स्थालरूपे करोति

(७,४[५३].२१) एवमेव द्वितीयं करोति

(७,४[५३].२२) एवं तृतीयम्

(७,४[५३].२३) एवमेव_उत्तरस्य केशपक्षस्य करोति


(७,५[५४].१) अथ नापितं समादिशति_अक्षण्वन् वप केशश्मश्रुरोम परिवप नखानि कुरु_इति

(७,५[५४].२) <पुनः प्राणः [६.५३.२]> <पुनर्मैत्विन्द्रियं [७.६७.१]>_इति त्रिर्निमृज्य

(७,५[५४].३) त्वयि महिमानं सादयामीत्यन्ततो योजयेत्

(७,५[५४].४) अथ_एनमुप्तकेशश्मश्रुं कृतनखम् (एद्. कृत्तनखं॑ सेए Cअलन्द्, Kल्. ष्छ्र्., प्. ६१) आप्लावयति

(७,५[५४].५) <हिरण्यवर्णाः [१.३३.१]>_इत्येतेन सूक्तेन गन्धप्रवादाभिरलंकृत्य

(७,५[५४].६) <स्वाक्तं (एद्. स्वक्तं॑ सेए Cअलन्द्, Kल्. ष्छ्र्., प्. ७८) मे [७.३०.१]>_इत्यानक्ति

(७,५[५४].७) अथ_एनमहतेन वसनेन परिधापयति <परि धत्त [२.१३.२]>_इति द्वाभ्याम्

(७,५[५४].८) <एह्यश्मानमा तिष्ठ [२.१३.४]>_इति दक्षिणेन पादेनाश्ममण्डलमास्थाप्य प्रदक्षिणमग्निमनुपरिणीय

(७,५[५४].९) अथास्य वासो निर्मुष्णाति <यस्य ते वासः [२.१३.५]>_इत्यनया

(७,५[५४].१०) अथ_एनमपरेणाहतेन वसनेनाछादयति_<अयं वस्ते गर्भं पृथिव्या [१३.१.१६]> इति पञ्चभिः

(७,५[५४].११) <यथा द्यौः [२.१५.१]>_<मनसे चेतसे धिय [६.४१.१]> इति महाव्रीहीणां स्थालीपाकं श्रपयित्वा शान्त्युदकेन_उपसिच्याभिमन्त्र्य प्राशयति

(७,५[५४].१२) <प्राणापानौ [२.१६.१]> <ओजोऽसि [२.१७.१]>_इत्युपदधीत

(७,५[५४].१३) <तुभ्यमेव जरिमन् [२.२८.१]>_इति कुमारं मातापितरौ त्रिः संप्रयछेते

(७,५[५४].१४) घृतपिण्डाअनाशयतः

(७,५[५४].१५) चूडाकरणं च गोदानेन व्याख्यातम्

(७,५[५४].१६) परिधापनाश्ममण्डलवर्जम्

(७,५[५४].१७) <शिवे ते स्तां [८.२.१४]>_इति परिदानान्तानि

(७,५[५४].१८) <पार्थिवस्य [२.२९.१]> <मा प्र गाम [१३.१.५९]>_इति चतस्रः सर्वाणि_अपियन्ति

(७,५[५४].१९) अमम्रिमोजोमानीं च दूर्वां च केशान्_च शकृत्पिण्डं च_एकधाब्दिसमाहृत्य

(७,५[५४].२०) शान्तवृक्षस्य_उपरि_आदधाति

(७,५[५४].२१) अधिकरणं ब्रह्मणः कंसवसनं गौर्दक्षिणा

(७,५[५४].२२) ब्राह्मणान् भक्तेन_उपेप्सन्ति


(७,६[५५].१) उपनयनम्

(७,६[५५].२) <आयमगन् [६.६८.१]>_इति मन्त्रोक्तम्

(७,६[५५].३) <यत्क्षुरेण [८.२.१७]>_इत्युक्तम्

(७,६[५५].४) <येनावपत्[६.६८.३]>_इति शकृदपिञ्जूलि

(७,६[५५].५) लौकिकं च समानामा परिधानात्

(७,६[५५].६) उपेतपूर्वस्य नियतं सवान् दास्यतो_अग्नीनाधास्यमानपर्यवेतव्रतदीक्षिष्यमाणानाम् (एद्. आधास्यमानः पर्य्॑ सेए Cअलन्द्, Kल्. ष्छ्र्., प्. ६१)

(७,६[५५].७) सोष्णोदकं शान्त्युदकं प्रदक्षिणमनुपरिणीय पुरस्तादग्नेः प्रत्यङ्मुखमवस्थाप्य

(७,६[५५].८) आह ब्रूहि

(७,६[५५].९) ब्रह्मचर्यमागमुप मा नयस्व_इति

(७,६[५५].१०) को नामासि किंगोत्र इत्यसौ_इति यथा नामगोत्रे भवतस्तथा प्रब्रूहि

(७,६[५५].११) आर्षेयं मा कृत्वा बन्धुमन्तमुपनय

(७,६[५५].१२) आर्षेयं त्वा कृत्वा बन्धुमन्तमुपनयामीति

(७,६[५५].१३) ओं भूर्भुवः स्वर्जनदोमित्यञ्जलौ_उदकमासिञ्चति

(७,६[५५].१४) उत्तरोऽअसानि ब्रह्मचारिभ्य इत्युत्तमं पाणिमन्वादधाति

(७,६[५५].१५) एष म आदित्यपुत्रस्तन्मे गोपायस्व_इत्यादित्येन समीक्षते

(७,६[५५].१६) <अपक्रामन् पौरुषेयाद्वृणानो [७.१०५.१]> इत्येनं बाहुगृहीतं प्राञ्चमवस्थाप्य दक्षिणेन पाणिना नाभिदेशे_अभिसंस्तभ्य जपति

(७,६[५५].१७) <अस्मिन् वसु वसवो धारयन्तु [१.९.१]>_<विश्वे देवा वसवो [१.३०.१]>_<आ यतु मित्र [३.८.१]>_<अमुत्रभूयाद्[७.५३.१]> <अन्तकाय मृत्यवे [८.१.१]>_<आ रभस्व [८.२.१]>_<प्राणाय नमो [११.४.१]> <विषासहिम् [१७.१.५]> इत्यभिमन्त्रयते

(७,६[५५].१८) अथापि परित्वरमाण <आ यातु मित्र [३.८.१]>_इत्यपि खलु_एतवता_एव_उपनीतो भवति

(७,६[५५].१९) प्रछाद्य त्रीन् प्राणायामान् कृत्वावछाद्य वत्सतरीमुदपात्रे समवेक्षयेत्

(७,६[५५].२०) <समिन्द्र नो [७.९७.२]>_<सं वर्चसा [६.५३.३]>_इति द्वाभ्यामुत्सृजन्ति गाम्


(७,७[५६].१) <श्रद्धाया दुहिता [६.१३३.४]>_इति द्वाभ्यां भाद्रमौञ्जीं मेखलां बध्नाति

(७,७[५६].२) मित्रावरुणयोस्त्वा हस्ताभ्यां प्रसूतः प्रशिषा प्रयछामीति पालाशं दण्डं प्रयछति

(७,७[५६].३) मित्रावरुणयोस्त्वा हस्ताभ्यां प्रसूतः प्रशिषा प्रतिगृह्णामि । सुश्रवः सुश्रवसं मा कुर्ववक्रोऽविथुरोऽहं भूयासमिति प्रतिगृह्णाति

(७,७[५६].४) <श्येनोऽसि [६.४८.१]>_इति च

(७,७[५६].५) अथ_एनं व्रतादानीयाः समिध आधापयति

(७,७[५६].६) <अग्ने व्रतपते व्रतं चरिष्यामि तच्छकेयं तत्समापेयं तन्मे राध्यतां तन्मे समृध्यतां तन्मे मा व्यनशत्तेन राध्यासं तत्ते प्रब्रवीमि तदुपाकरोमि अग्नये व्रतपतये स्वाहा [दृष्टव्यम्‌ तै.सं.१.५.१०.३ इत्यादि]>

(७,७[५६].७) <वायो व्रतपते । सूर्य व्रतपते । चन्द्र व्रतपते । आपो व्रतपत्न्यो । देवा व्रतपतयो । व्रतानां व्रतपतयो व्रतमचारिषं तदशकं तत्समाप्तं तन्मे राद्धं तन्मे समृद्धं तन्मे मा व्यनशत्तेन राधोऽस्मि तद्वः प्रब्रवीमि तदुपाकरोमि व्रतेभ्यो व्रतपतिभ्यः स्वाह [दृष्टव्यम्‌ तै.सं.१.६.६.३ इत्यादि]>

(७,७[५६].८) अथ_एनं बद्धमेखलमाहितसमित्कं सावित्रीं वाचयति

(७,७[५६].९) पच्छः प्रथमम्

(७,७[५६].१०) ततो_अर्धर्चशः

(७,७[५६].११) ततः संहिताम्

(७,७[५६].१२) अथ_एनं संशास्ति_<अग्नेश्चासि ब्रह्मचारिन्मम चापोऽशान कर्म कुरूर्ध्वस्तिष्ठन्मा दिवा स्वाप्सीः समिध आधेहि [दृष्टव्यम्‌ ंन्B १.६.२३]>

(७,७[५६].१३) अथ_एनं भूतेभ्यः परिददाति_<अग्नये त्वा परिददामि ब्रह्मणे त्वा परिददाम्युदङ्क्याय त्वा शूल्वाणाय परिददामि शत्रुंजयाय त्वा क्षात्राणाय परिददामि मार्त्युंजयाय त्वा मार्त्यवाय परिददाम्यघोराय त्वा परिददामि तक्षकाय त्वा वैशालेयाय परिददामि हाहाहूहूभ्यां त्वा गन्धर्वाभ्यां परिददामि योगक्षेमाभ्यां त्वा परिददामि भयाय च त्वाभयाय च परिददामि विश्वेभ्यस्त्वा देवेभ्यः परिददामि सर्वेभ्यस्त्वा देवेभ्यः परिददामि विश्वेभ्यस्त्वा भूतेभ्यः परिददामि सर्वेभ्यस्त्वा भूतेभ्यः परिददामि सप्रजापतिकेभ्यः [दृष्टव्यम्‌ Bहार्ङ्ष्१.८८.१ f.]>

(७,७[५६].१४) <स्वस्ति चरतादिह [दृष्टव्यम्‌ पै.सं.२०.५३.२, ःिर्ङ्ष्१.५.१]>_इति <मयि रमन्तां ब्रह्मचारिणः []>_इत्यनुगृह्णीयात्

(७,७[५६].१५) नानुप्रणुदेत्

(७,७[५६].१६) <प्रणीतीरभ्यावर्तस्व [७.१०५.१]>_इत्यभ्यात्ममावर्तयति

(७,७[५६].१७) <यथापः प्रवता यन्ति यथा मासा अहर्जरम् । एवा मा ब्रह्मचारिणो धातरा यन्तु सर्वदा ॥ [पै.सं.२०.५२.९]> स्वाहा_इत्याचार्यः समिधमादधाति


(७,८[५७].१) <श्रद्धाया [एद्. मिस्प्रिन्त्श्राधया॑ सेए Cअलन्द्, Kल्. ष्छ्र्., प्. ५१, Bलोओम्fइएल्द्ङ्ङा १९०२ ५१४] दुहिता [६.१३३.४]>_इति द्वाभ्यां भाद्रमौञ्जीं मेखलां ब्राह्मणाय बध्नाति

(७,८[५७].२) मौर्वीं क्षत्रियाय धनुर्ज्यां वा

(७,८[५७].३) क्षौमिकीं वैश्याय

(७,८[५७].४) मित्रावरुणयोस्त्वा हस्ताभ्यां प्रसूतः प्रशिषा प्रयछामीति पालाशं दण्डं ब्राह्मणाय प्रयछति

(७,८[५७].५) आश्वत्थं क्षत्रियाय

(७,८[५७].६) न्यग्रोधावरोहं वैश्याय

(७,८[५७].७) यदि_अस्य दण्डो भज्येत <य ऋते चिदभिश्रिषः [१४.२.४७]>_इत्येतयालभ्याभिमन्त्रयते

(७,८[५७].८) सर्वत्र शीर्णे भिन्ने नष्टे_अन्यं कृत्वा <पुनर्मैत्विन्द्रियं [७.६७.१]>_इत्यादधीत

(७,८[५७].९) अथ वासांसि

(७,८[५७].१०) ऐणेयहारिणानि ब्राह्मणस्य

(७,८[५७].११) रौरवपार्षतानि क्षत्रियस्य

(७,८[५७].१२) आजाविकानि वैश्यस्य

(७,८[५७].१३) सर्वेषां क्षौमशाणकम्बलवस्त्रम्

(७,८[५७].१४) काषायाणि

(७,८[५७].१५) वस्त्रं चापि_अकाषायम्

(७,८[५७].१६) भवति भिक्षां देहीति ब्राह्मणश्चरेत्

(७,८[५७].१७) भिक्षां भवती ददात्विति क्षत्रियः

(७,८[५७].१८) देहि भिक्षां भवतीत्वैश्यः

(७,८[५७].१९) सप्त कुलानि ब्राह्मणश्चरेत्त्रीणि क्षत्रियो द्वे वैश्यः

(७,८[५७].२०) सर्वं ग्रामं चरेद्भैक्षं स्तेनपतितवर्जम्

(७,८[५७].२१) <मय्यग्रे [७.८२.२]>_इति पञ्चप्रश्नेन जुहोति

(७,८[५७].२२) <सं मा सिञ्चन्तु [७.३३.१]>_इति त्रिः पर्युक्षति

(७,८[५७].२३) <यदग्ने तपसा तप [७.६१.१]>_<अग्ने तपस्तप्यामह [७.६२.२]> इति द्वाभ्यां परिसमूहयति

(७,८[५७].२४) <इदमापः प्रवहत [७.८९.३]>_इति पाणी प्रक्सालयते

(७,८[५७].२५) <सं मा सिञ्चन्तु [७.३३.१]>_इति त्रिः पर्युक्षति

(७,८[५७].२६) <अग्ने समिधमाहार्षं [१९.६४.१]>_इत्यादधाति चतस्रः

(७,८[५७].२७) <एधोऽस्य्[७.८९.४]>_इत्यूष्मभक्षं भक्षयति_आ निधनात्

(७,८[५७].२८) <त्वं नो मेधे [६.१०८.१]>_इत्युपतिष्ठते

(७,८[५७].२९) <यदन्नम् [६.७१.१]> इति तिसृभिर्भैक्षस्य जुहोति

(७,८[५७].३०) अहरहः समिध आहृत्य_एवं सायंप्रातरभ्यादध्यात्

(७,८[५७].३१) मेधाजनन आयुष्यैर्जुहुयात्

(७,८[५७].३२) यथाकामं द्वादशरात्रमरसाशी भवति


(७,९[५८].१) <भद्राय कर्णः क्रोशतु भद्रायाक्षि वि वेपताम् । परा दुःष्वप्न्यं सुव यद्भद्रं तन्न आ सुव ॥ अक्षिवेपं दुःष्वप्न्यमार्तिं पुरुषरेषिणीम् । तदस्मदश्विना युवमप्रिये प्रति मुञ्चतम् ॥ यत्पार्श्वादुरसो मे अङ्गादङ्गादववेपते । अश्विना पुष्करस्रजा तस्मान्नः पातमंहसः [पै.सं.२०.५४.६८]>_इति कर्णं क्रोशन्तमनुमन्त्रयते

(७,९[५८].२) अक्षि वा स्फुरत्

(७,९[५८].३) <वि देवा जरसा [३.३१.१]>_<उत देवा [४.१३.१]> <आवतस्त [५.३०.१]> <उप प्रियं [७.३२.१]>_<अन्तकाय मृत्यवे [८.१.१]>_<आ रभस्व [८.२.१]> <प्राणाय नमो [११.४.१]> <विषासहिं [१७.१.१]>_इत्यभिमन्त्रयते

(७,९[५८].४) ब्राह्मणोक्तमृषिहस्तश्च

(७,९[५८].५) <कर्मणे वां वेषाय वां सुकृताय वाम् [दृष्टव्यम्‌ तै.सं.१.१.४.१ इत्यादि, कौ.सू.१.१.४०]> इति पाणी प्रक्षाल्य

(७,९[५८].६) <निर्दुरर्मण्य [१६.२.१]> इति संधाव्य

(७,९[५८].७) <शुद्धा न आपस्[१२.१.३०]>_इति निष्ठीव्य जीवाभिराचम्य

(७,९[५८].८) <एहि जीवं [४.९.१]>_इत्याञ्जनमणिं बध्नाति

(७,९[५८].९) <वाताज्जातो [४.१०.१]>_इति कृशनम्

(७,९[५८].१०) <नव प्राणान् [५.२८.१]> इति मन्त्रोक्तम्

(७,९[५८].११) <घृतादुल्लुप्तम् [५.२८.१४]> <आ त्वा चृतत्व्[५.२८.१२]> <ऋतुभिष्ट्वा [५.२८.१३]> [दृष्टव्यम्‌ पै.सं.२.५९.१०१२] <मुञ्चामि त्वा [३.११.१]>_<उत देवा [४.१३.१]> <आवतस्त [५.३०.१]> <उप प्रियं [७.३२.१]>_<अन्तकाय मृत्यवे [८.१.१]>_<आ रभस्व [८.२.१]> <प्राणाय नमो [११.४.१]> <विषासहिं [१७.१.१]>_इत्यभिमन्त्रयते

(७,९[५८].१२) <निर्दुरर्मण्य [१६.२.१]> इति सर्वसुरभिचूर्णैररण्ये_अप्रतीहारं प्रलिम्पति

(७,९[५८].१३) अथ नामकरणम्

(७,९[५८].१४) <आ रभस्वेमाम् [८.२.१]> इत्यविछिन्नामुदकधारामालम्भयति

(७,९[५८].१५) पूतुदारुं बध्नाति

(७,९[५८].१६) पाययति

(७,९[५८].१७) <यत्ते वासः [८.२.१६]>_इत्यहतेन_उत्तरसिचा प्रछादयति

(७,९[५८].१८) <शिवे ते स्तां [८.२.१४]>_इति कुमारं प्रथमं निर्णयति

(७,९[५८].१९) <शिवौ ते स्तां [८.२.१८]>_इति व्रीहियवौ प्राशयति

(७,९[५८].२०) <अह्ने च त्वा [८.२.२०]>_इत्यहोरात्राभ्यां परिददाति

(७,९[५८].२१) <शरदे त्वा [८.२.२२]>_इत्यृतुभ्यः

(७,९[५८].२२) <उदस्य केतवो [१३.२.१]> <मूर्धाहं [१६.३.१]> <विषासहिं [१७.१.१]> इत्युद्यन्तमुपतिष्ठते

(७,९[५८].२३) मध्यंदिने_अस्तं यन्तं सकृत्पर्यायाभ्याम्

(७,९[५८].२४) अंहोलिङ्गानामापो भोजनहवींषि_उक्तानि

(७,९[५८].२५) उत्तमासु <यन्मातली रथक्रीतम् [११.६.२३]> इति सर्वासां द्वितीया


(७,१०[५९].१) <विश्वे देवा [१.३०.१]> इति विश्वानायुष्कामो यजते

(७,१०[५९].२) उपतिष्ठते

(७,१०[५९].३) <इदं जनास [१.३२.१]> इति द्यावापृथिव्यै पुष्टिकामः

(७,१०[५९].४) संपत्कामः

(७,१०[५९].५) <इन्द्र जुषस्व [२.५.१]>_इतीन्द्रं बलकामः

(७,१०[५९].६) <इन्द्रमहं [३.१५.१]>_इति पण्यकामः

(७,१०[५९].७) <उदेनमुत्तरं नय [६.५.१]> <योऽस्मान् [६.६.१]> <इन्द्रः सुत्रामा [७.९१.१]>_इति ग्रामकामः

(७,१०[५९].८) ग्रामसांपदानामप्ययः

(७,१०[५९].९) <यशसं मेन्द्रो [६.५८.१]>_इति यशस्कामः

(७,१०[५९].१०) <मह्यमापो [६.६१.१]>_इति व्यचस्कामः

(७,१०[५९].११) <आगछत [६.८२.१]> इति जायाकामः

(७,१०[५९].१२) <वृषेन्द्रस्य [६.८६.१]>_इति वृषकामः

(७,१०[५९].१३) <आ त्वाहार्षम् [६.८७.१]> <ध्रुवा द्यौर्[६.८८.१]> इति ध्रौव्यकामः

(७,१०[५९].१४) <त्यमू षु [७.८५.१]> <त्रातारम् [७.८६.१]> <आ मन्द्रैर्[७.११७.१]> इति स्वस्त्ययनकामः

(७,१०[५९].१५) <समास्त्वाग्ने [२.६.१]>_<अभ्यर्चत [७.८२.१]>_इत्यग्निं संपत्कामः

(७,१०[५९].१६) <पृथिव्याम् [४.३९.१]> इति मन्त्रोक्तम्

(७,१०[५९].१७) <तदिदास [५.२.१]> <धीती वा [७.१.१]>_इतीन्द्राग्नी

(७,१०[५९].१८) <यस्येदमा रजो [६.३३.१]>_<अथर्वाणं [७.२.१]>_<अदितिर्द्यौर्[७.६.१]> <दितेः पुत्राणाम् [७.७.१]>_<बृहस्पते सवितर्[७.१६.१]> इत्यभ्युदितं ब्रह्मचारिणं बोधयति

(७,१०[५९].१९) <धाता दधातु [७.१७.१]> <प्रजापतिर्जनयति [७.१९.१]>_<अन्वद्य नो [७.२०.१]> <यन्न इन्द्रो [७.२४.१]> <ययोरोजसा [७.२५.१]> <विष्णोर्नु कं [७.२६.१]>_<अग्नाविष्णू [७.२९.१]> <सोमारुद्रा [७.४२.१]> <सिनीवालि [७.४६.१]> <बृहस्पतिर्नः [७.५१.१]>_<यत्ते देवा अकृण्वन् [७.७९.१]> <पूर्णा पश्चाद्[७.८०.१]>_<प्रजापते [७.८०.३]>_<अभ्यर्चत [७.८२.१]> <को अस्या नो [७.१०३.१]>_इति प्रजापतिम्

(७,१०[५९].२०) <अग्न इन्द्रश्च [७.११०.१]>_इति मन्त्रोक्तान् सर्वकामः

(७,१०[५९].२१) <य ईशे [२.३४.१]> <ये भक्षयन्तो [२.३५.१]>_इतीन्द्राग्नी लोककामः

(७,१०[५९].२२) अन्नं ददाति प्रथमम्

(७,१०[५९].२३) पशूपाकरणमुत्तमम्

(७,१०[५९].२४) सवपुरस्ताद्धोमा युज्यन्ते

(७,१०[५९].२५) <दोषो गाय [६.१.१]>_इत्यथर्वाणं समावृत्याश्नाति

(७,१०[५९].२६) <अभयं द्यावापृथिवी [६.४०.१]> <श्येनोऽसि [६.४८.१]>_इति प्रतिदिशं सप्तर्षीनभयकामः

(७,१०[५९].२७) उत्तरेण दीक्षितस्य वा ब्रह्मचारिणो वा दण्डप्रदानं

(७,१०[५९].२८) <द्यौश्च म [६.५३.१]> इति द्यावापृथिव्यै विरिष्यति

(७,१०[५९].२९) <यो अग्नौ [७.८७.१]>_इति रुद्रान् स्वस्त्ययनकामः स्वस्त्ययनकामः


(कौ.सू.७ Cओलोफोन्) इति अथर्ववेदे कौशिकसूत्रे सप्तमोऽध्यायः समाप्तः